________________
११५
सूत्र ३४]
स्वोपज्ञभाष्य-टीकालङ्कृतम् इति च अनेकधर्मकदम्बकोपेतस्य वस्तुन एकेन धर्मेणोन्नयनमवधारणात्मकं नित्य एवानित्य एवेत्येवंविधं नयव्यपदेशमास्कन्दति, स चाध्यवसायविशेष इति । निगम्यन्ते-परिच्छिचन्ते इति निगमाः-लौकिका अर्थाः, तेषु निगमेषु भवो योऽध्यवसायो ज्ञानाख्यः स मैगमस्य निर्देशः नगमः
र नैगमः । स च सामान्येनापि व्यवहरति सामान्यबुद्धिहेतुना सामान्य
" वचनहेतुना च, अत्यन्तं भेदेभ्योऽन्यत्वरूपेण सत्तामात्रेण, तथा विशेषेणापि विशेषबुद्धिहेतुना विशेषवचनहेतुना च अत्यन्तं सामान्यादन्यत्वरूपेण व्यवहरति परमाणुनिष्ठितेन, तथा सामान्यविशेषेणापि गवादिना सर्वगोपिण्डेष्वनुवृत्त्यात्मकेन अश्वादिव्याच्यात्मकेन च व्यवहरति, यथा लोको व्यवहरति तथाऽनेन व्यवहर्तव्यमिति, लोकचोपदिष्टैः प्रकारैः समस्तैर्व्यवहरति । प्रवचने च वसतिप्रस्थकनिदर्शनद्वयेन विभावितः काणभुजराद्धान्तहेतुरव
_ गन्तव्यः। अभेदेन सङ्ग्रहात् सर्वस्य सङ्ग्रह्णाति इति सङ्ग्रहः । सङ्ग्रहस्य स्वरूपम् । यदि भवनाभिसम्बद्धस्यैव भावस्य भावत्वमभ्युपगम्यते ततः परिसमा
पितात्मस्वरूपित्वाद् भावस्य भ्रान्तिसमुपनिबन्धनघटादिविकल्पप्रकसनानर्थक्यम् , यदि घटादि वस्त्वपि भवनप्रवृत्तितन्त्रमेवेत्येवं सति भाव एव, तदनान्तरत्वात् तत् स्वात्मवत् , भवनार्थान्तरत्वे वा व्योमोत्पलादिवदसत्त्वं विकल्पानां रासभविषाणादिसत्त्वं वा घटादिवद् भवनार्थान्तरत्वात् , एतद्दर्शनपुरस्सरा एव च सर्वनित्यत्वैकत्वकारणमात्रत्वादिवादाः कालपुरुषस्वभावदैवादयश्चेति भावः । निश्चयासद्गृहीतानां विधिपूर्वक
मवहरणं व्यवहारः। यदि घटादिभेदश्रुत्या स्वसामान्यानुबद्धस्य व्यवहारस्य व्याख्या
या निरस्तसामान्यान्तरसम्बन्धस्य श्रूयमाणत्वानुगुणमेव ग्रहणं न स्यात्, किन्तु सर्वव्यपदेशविशेषाभिव्यङ्गयो भाव एव तेन तेन रूपेणाभिव्यज्यते, ततो घटाधन्यवरभेदश्रुतौ सर्वरूपभेदभावप्रतीतिप्रसङ्गस्ततश्च घटपटोदकादिरूपव्यतिकरभावानिश्चयाभावप्रसङ्गः, उपदेशकियोपभोगापवर्गव्यवस्थादीनां चाभावात् सर्वसंव्यवहारोच्छेदः, सर्वविशेषव्याकरणे च निर्निबन्धनभवनाभावाद् भावाभाव एव, अविशेषत्वाभेदत्वानिरूप्यत्वादितमश्च नैवासौ भावः खरविषाणादिवत् , तस्माद् व्यवहारोपनिपतितसामान्योपनिबन्धनं तु यदेव यद् यदा द्रव्यं पृथिवीघटादि व्यपदिश्यते तदेव तत् तदा त्रैलोक्याविभिन्नरूपं सततमवस्थि-. तापरित्यक्तात्मसामान्यं महासामान्यप्रतिक्षेपेण संव्यवहारमार्गमास्कन्दतीति । एवंविधवस्तूपनिबन्धनैव च वर्णाश्रमप्रतिनियतरूपा यमनियमगम्यागम्यभक्ष्याभक्ष्यादिव्यवस्था, कुम्भकारादेव मृदानयनावमर्दनशिवकस्थासकादिकरणप्रवृत्ती वेतनकादिदानस्य साफल्यम् , अव्यवहार्यत्वाच्च शेषमवस्तु, व्योमेन्दीवरादिवदिति । अजु-सममकुटिलं सूत्रयति ऋजु अजमय वा श्रुतम् आगमोऽस्येति सूत्रपातनवद् वा ऋजुसूत्रः, यस्मादतीतानागतवक्रपविचारः रित्यागेन वर्तमानपदवीमनुधावति, अतः साम्प्रतकालावरुद्धपदार्थत्वात् ऋजु१ 'निधितेन ' इत्यपि पाठः। २ 'भावनिश्चया०' इति क-ग-पाठः। ३ 'दितच इति ग-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org