________________
११४
मज्ञानमेव भवति । तद्वन्मिथ्यादर्शनोपहतेन्द्रियमतेर्मतिश्रुतावधयोऽप्यज्ञानं भवन्ति ॥ ३३ ॥
तत्वार्थाधिगमसूत्रम्
चारित्रानभिधाने हेतुः
टी० -योन्मत्तो वायुपिशाचादिगृहीतः कर्मोदयान् कर्मणां पुराकृतानां विपाकाद् यदा उपहतेन्द्रियमतिः उपहतेन्द्रिय उपहतमनाथ संवृत्तो भवति तदा विपरीतग्राहीअन्यथावस्थितवस्तुपरिच्छेदी भवति, यतः स उन्मत्तः अश्वं सन्तं गौरयमित्येव - मध्यवस्यति एवं गृह्णात्युपदिशति च गां च सतीं अश्वोऽयमित्यध्यवस्यति स्वयमन्येभ्यवोपदिश्यत्यश्वोऽयमिति । सर्वपदार्थेष्वेव चोन्मत्तस्य यदृच्छयोपलब्धिर्न कतिपयेष्वित्येतदुदाहरणभूयस्त्वेन कथयति-लोष्टं सुवर्णमित्यादिना । लोष्टं पृथिवीपरिणामं सन्तं मृदात्मकं सुवर्णमित्यध्यवस्यति, सुवर्ण च लोष्टमित्यध्यवस्यति, कदाचिच्च लोष्टं लोष्टमेवाध्यवस्यति, कदाचिद् वा सुवर्ण सुवर्णमित्येव, तस्योन्मत्तस्यैवमुक्तेनाविशेषेण अयथावदवबोधेन लोष्टं सुवर्णमित्येवं विपरीत मध्यवस्यतः नियतं - निश्चितमज्ञानमेव, कुत्सितः मेव तज्ज्ञानं भवतीति । सम्प्रति दार्शन्तिके योजयति - तद्वन्मिथ्यादर्शनेनोपहतेन्द्रियमनस्कस्य मतिश्रुतावधयस्त्रयोऽप्यज्ञानमेव भवन्ति, एकनयमतसमाश्रयणे तु न सर्ववस्तुपरिच्छेदः, न च तावन्मात्रं तद् वस्तु, नयमतान्तरेणान्यथापि परिच्छेदात्, अतः अज्ञानता त्रयाणाम्, समग्रनयसामग्रीप्रत्ययेनैकैकनयावलम्बी प्रत्ययो निवर्त्यत इति विद्यते हि सर्वनयसामग्रीप्रत्ययो बाधक इति ॥ ३३ ॥
भा०-- उक्तं ज्ञानम् । चारित्रं नवमेऽध्याये वक्ष्यामः । प्रमाणे चोक्ते । नयान् वक्ष्यामः । तद्यथा
टी० – प्रकृतपरिसमाप्तिं सूचयति उक्तं ज्ञानम्, सम्यग्दर्शनज्ञानचारित्राणीत्युपक्षितं त्रयमिति, सम्प्रत्यवसर प्राप्तं चारित्रं, तच्चेह लब्धावकाशमपि नाभिधीयते, यत इहाभिधायापि पुनः संवरप्रस्तावे ' आश्रवनिरोधः संवरः', स गुप्त समितिधर्मानुप्रेक्षापरीषहजयचारित्रैः' (अ० ९, सू० १-२ ) इत्यत्र चारित्रद्वारे संवर प्ररूपकेऽभिधातव्यमेवातो ग्रन्थस्य लाघवमिच्छता तत्रैव नवमेऽभिधास्यते इत्याह- चारित्रं नवमेऽध्याये वक्ष्यामः । 'प्रमाणनयैरधिगमः' (अ०१, सू०६ ) इति च यदुक्तं तत्र प्रमाणमेतदेव पञ्चविधं सम्यग्दृष्टिपरिगृहीतं ज्ञानं, तदाह-प्रमाणे च प्रत्यक्षपरोक्षे उक्ते, नयास्तु पूर्वं नोक्ता इत्यतो नयांन वक्ष्यामः, ते च यथा स्वरूपतो व्यवस्थितास्तथा निर्दिश्यन्ते
सूत्रम् - - नैगमसङ्ग्रह व्यवहारर्जुसूत्रशब्दा नयाः ॥ १-३४ ॥ भा० - नैगमः, सङ्ग्रहः, व्यवहारः, ऋजुसूत्रः, शब्द इत्येते पञ्च नया भवन्ति ॥ ३४ ॥
नयभेदाः
टी० - नैगमेत्यादि । कृतद्वन्द्वसमासानां पञ्चानामपि प्रथमाबहुवचनान्तता । नया
१
नयानत्र ' इति ख- पाठः ।
Jain Education International
[ अध्यायः १
For Personal & Private Use Only
www.jainelibrary.org