________________
ध्यम्
सूत्र ३५]
स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-आद्य इति सूत्रक्रमप्रामाण्यान्नैगमनाह । स विभेदो-देशपरिक्षेपी सर्वपरिक्षेपी चेति । शब्दस्त्रिभेदः-साम्प्रतः, समभिरूढः, एवम्भूत इति ॥
टी०-आद्य इति सूत्रक्रमेत्यादि । आदौ भव आद्यः इत्यनेन सूत्रकारः कमाह ?। उच्यते-नैगम, कुत इति चेत् ? सूत्रक्रमप्रामाण्यात् अर्थसूचनात् सूत्रं नैगमादि क्रमः-परिपाटी तस्य प्रामाण्यमेवमाश्रयणं तस्मान्नैगमनयं ब्रवीति, स आयो नैगमो
द्विभेदो द्वौ भेदावस्येति द्विभेदः, तौ च भेदावाचष्टे-देशपरिक्षेपी नैगमस्य वैवि- व
- सर्वपरिक्षेपी च । देशो-विशेषः परमाण्वादिगतस्तं परिक्षेप्तुं शील
- मस्येति देशपरिक्षेपी, विशेषग्राहीत्यर्थः । सर्वपरिक्षेपी सर्व-सामान्यम् एकं नित्यं निरवयवादिरूपं तत् परिक्षेप्तुं शीलमस्य स सर्वपरिक्षेपी, सामान्यग्राहीतियावत् । सामान्यविशेषरूपस्तु नोक्तः, अनुवृत्तिलक्षणश्चेत् सामान्यं, व्यावृत्तिलक्षणश्चेत् विशेषः, ततोऽन्यस्याभावात् । अथवा आद्यन्तयोर्ग्रहणात् तन्मध्यगतस्यापि ग्रहणम् । शब्दस्त्रिभेद् इति शब्दनयस्त्रिभेदः व्यंश इति, तानाह-साम्प्रत इत्यादिना, शब्दस्य त्रैविध्यम्
- साम्प्रतं-वर्तमानं भावाख्यमेव वस्त्वाश्रयति यतोऽतः साम्प्रतः,
- सम्प्रतिकाले यद् वस्तु भवत् तत् साम्प्रतं तद्वस्त्वाश्रयन् साम्प्रतोऽमिधीयते ॥ ननु च 'कालाद्व(?)ञ्' (पा०४।३।११) इति साम्प्रतिक इति भवितव्यम् , नैष दोषः, वर्तमानक्षणवर्तिवस्तु विपयोऽध्यवसायस्तद्भवः शब्दः साम्प्रतः, स्वार्थिको वा प्रज्ञादित्वात् । एष च मौलशब्दनयाभिप्रायाविशिष्ट इति न पृथगुदाहरणैर्विभावितः । यां यां संज्ञामभिधत्ते तां तां समभिरोहतीति समभिरूढः, सोभिदधाति-यदि लिङ्गमात्रभिन्नमवस्तु, विसंवादित्वात् रक्तनीलतादिवत् , एवं सति मूलत एव भिन्नशब्दं कथं वस्तु स्यात् ? शब्देन ह्यों निरुक्तीक्रियते एतस्मानिरुक्तादेप इति, यत्र तद्भेदस्तद्भिन्नमेव, यथा तु पूर्वनयेनैकं कृत्वोच्यते इन्द्रशकादि तथा यदवस्तु, घटज्वलनादिवद भिन्ननिमित्तत्वात, अनयोरेकत्वेनावस्तुता । एवं घटकुटयोरपि चेष्टाकौटिल्यनिमित्तभेदात् पृथक्ता, तथा प्रकृतिप्रत्ययोपात्तनिमित्तभेदाद् भिन्नौ शक्रेन्द्रशब्दावेकार्थो न भवतः, विविक्तनिमित्तावबद्धत्वात् गवाश्वशब्दवत् । अथापि प्रतीतस्वादसंप्रमोहाल्लोके चैवं निरूढत्वात् इन्द्रशब्दस्य पुरन्दरादयः पर्याया इत्येतदनुपपन्नम, एवं हि सामान्यविशेषयोरपि पर्यायशब्दत्वं स्यादेव, यतः प्लक्ष इत्युक्ते द्राक् क्षेऽस्ति सम्प्रत्ययः, अस्तित्वासम्प्रमोहे च संज्ञान्तरकल्पनायामिहापि तर्युक्तादनुक्तप्रतिपत्तौ सत्यां पर्यायत्वप्रसङ्गः प्रविश पिण्डी, भक्षयेत्यस्य गेमात् , तथाऽस्तिर्भवन्तीपरः प्रथमपुरुषेप्रयुज्यमानोऽप्यस्तीति गम्यते, वृक्षः प्लक्षोऽस्तीति गम्यते, न्यायादस्तिः पर्यायः प्राप्तः, तस्माद् भेदः साधीयान् दन्तिहस्तिनोश्चैकत्वाद् दन्तहस्तैकत्वप्रसङ्ग इति । एवं संज्ञान्तरोक्तेः संज्ञा
'किमाह ' इति क-ख-पाठः । २ 'गमनात् ' इति क-ब-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org