________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ मा०-तद् द्विविधमङ्गवाह्यमङ्गप्रविष्टं च । तत् पुनरनेकविधं द्वादशविधं
. च यथासङ्ख्यम् । अङ्गवाह्यमनेकविधम् । तद्यथा-सामायिकं, श्रुतशानस्य भेदप्रापण चतुर्विशतिस्तवः, वन्दनं, प्रतिक्रमणं, कायव्युत्सर्गः, प्रत्या
- ख्यानं, दशवैकालिकं, उत्तराध्यायाः, दशाः, कल्पव्यवहारी, निशीथमृषिभाषितानीत्येवमादि ॥
टी.-तद् द्विविधमित्यादिना । द्वौ चानेकश्च द्वादश च द्वयनेकद्वादश ते भेदा यस्य तद् द्वयनेकद्वादशभेदम् , तच्छ्रुतं द्विविधमिति, परोपाधिकं द्विविधत्वमिति वक्ष्यति । अङ्गपायमिति । अङ्गानि-अवयवा आचारादयस्तेभ्यो बाह्यमिति अङ्गबाह्यम् , अङ्गेष्वाचारादिषु प्रविष्टम्-अन्तर्गतम् अङ्गप्रविष्टम्, अङ्गबाह्यमङ्गप्रविष्टम् च पुनरनेन भेदेन भेद्यम्अनेकविधम्-अनेकप्रकारम् , अङ्गबाह्यं, द्वादशविधं-द्वादशभेदम् अङ्गप्रविष्टमेवं यथासङ्ख्यं
. यथोपन्यस्तमितियावत् । अङ्गाबाह्यमनेकविधं सामायिकादि । समभावो अङ्ग्याह्यादीनां यत्राध्ययने वर्ण्यते तत्तेन वर्ण्यमानेनार्थेन निर्दिशति-सामायिकामिति । सामायिकादीनां । व्यायाना एवं सर्वेषु वक्ष्यमाणेष्वर्थसम्बन्धाद् व्यपदेशो दृश्यः । चतुर्विंशतीनां
पूरणस्यारादुपकारिणो यत्र स्तवः शेषाणां च तीर्थकृतां वर्ण्यते स चतुर्विशतिस्तव इति । वन्दनम्-प्रणामः स कस्मै कार्यः कस्मै च नेति यत्र वर्ण्यते तत् वन्दनम् । असंयमस्थान प्राप्तस्य यतेस्तस्मात् प्रतिनिवर्तनं यत्र वर्ण्यते तत् प्रतिक्रमणम् । कृतस्य पापस्य यत्र कायपरित्यागेन क्रियमाणेन विशुद्धिराख्यायते स कायष्यु. स्सर्गः। प्रत्याख्यानं यत्र मूलगुणा उत्तरगुणाश्च धारणीया इत्ययमर्थः ख्याप्यते तत् प्रत्याख्यानम् । दशविकाले पुत्रहिताय स्थापितान्यध्ययनानि दशवैकालिकम् । आचारात् परतः पूर्वकाले यस्मादेतानि पठितवन्तो यतयस्तेन उत्तराध्ययनानि । पूर्वेभ्य आनीय सधसन्ततिहिताय स्थापितान्यध्ययनानि दशा उच्यन्ते। दशा इति व्यवस्थावचनः शब्दः, काचित प्रतिविशिष्टावस्था यतीनां यासु वर्ण्यते ता दशा इति । कल्पव्यवहारौ कल्प्यन्ते-भिद्यन्ते मूलादिगुणा यत्र स कल्पः, व्यवहियते प्रायश्चित्ताभवद्व्यवहारतयेति व्यवहारः । निशीथम् अप्रकाशं सूत्रार्थाभ्यां, यद् ऋषिभिर्भाषितानि प्रत्येकबुद्धादिभिः कापिलीयादीनि, एवमादि सर्वमङ्गबाह्यं दृश्यम् ॥
भा०-अङ्गप्रविष्टं द्वादशविधम् । तद्यथा-आचारः, सूत्रकृत, स्थानं, समवायः, व्याख्यामज्ञप्तिः, ज्ञातधर्मकथाः, उपासकाध्ययनदशाः, अन्तकृशाः, अनुत्सरोपपातिकदशाः, प्रश्नव्याकरणं, विपाकसूत्रं, दृष्टिपात इति ॥ अत्राहमतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति । अत्रोच्यते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org