________________
सूत्र २० ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
९१
व्याख्या
डी० - अङ्गप्रविष्टं द्वादशविधं भण्यते । तद्यथा, आचारो ज्ञानादिर्यत्र कथ्यते स आचारः । सूत्रीकृता अज्ञानिकादयो यत्र वादिनस्तत् सूत्रकृतम् । अङ्गप्रविष्टानां यत्रैकादीनि पर्यायान्तराणि वर्ण्यन्ते तत् स्थानम् । सम्यगवायनं वर्षधरआचारादीनां नद्यादिपर्वतानां यत्र स समवायः । व्याख्यायन्ते जीवादिगतयो यत्र नयद्वारेण प्ररूपणाः क्रियन्ते सा व्याख्याप्रज्ञप्तिः । ज्ञाता - दृष्टान्तास्तानुपादाय धर्मो यत्र कथ्यते ताः ज्ञातधर्मकथाः । उपासकैः - श्रावकैरेवं स्थातव्यमिति येष्वध्ययनेषु दशसु वर्ण्यते ता उपासकदशाः । अन्तकृतः - सिद्धास्ते यत्र ख्यायन्ते वर्धमानस्वामिनस्तीर्थं एतावन्त इत्येवं सर्वकृतान्ताः अन्तकृद्दशाः । अनुत्तरोपपादिका देवा येषु ख्याप्यन्तै ताः अनुत्तरोपपादिकदशाः । प्रश्नितस्य जीवादेर्यत्र प्रतिवचनं भगवता दत्तं तत् प्रश्नव्याकरणम् । विपाकः - कर्मणामनुभवस्तं सूत्रयति - दर्शयति तद् विपाकसूत्रम् । टीनाम् अज्ञानिकादीनां यत्र प्ररूपणा कृता स दृष्टिवादः, तासां वा तत्र पातः । अत्रावसरे चोदक आह-उक्तं लक्षणं विधानं च श्रुतस्य, किन्तु यथाऽयं विषयं निरूपयिष्यते तथा न कश्चिद् भेदोऽस्तीति पृच्छति मतिश्रुतयोः को भेद इति १ । भण्यते
प्रतिविशेषः
भा०—उत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानम्, श्रुतज्ञानं तु त्रिकालविषयम्, उत्पन्नविनष्टानुत्पन्नार्थग्राहकमिति ॥ अत्राहमतिश्रुतयोः गृहीमो मतिश्रुतयोर्नानात्वम् ॥ अथ श्रुतज्ञानस्य द्विविधमनेकं द्वादशविधमिति किंकृतः प्रतिविशेष इति १ । अत्रोच्यतेटी० - उत्पन्नेत्यादिना । उत्पन्नः -- स्वेन रूपेण जातः स्पर्शादिरर्थो घटादिगतः, स चोत्पन्नो यदि तेन रूपेण सन्तिष्ठते न तु कपालाद्यवस्थां प्राप्तस्तदा स्पर्शनमतिज्ञानमेवं परिच्छिनत्ति-- घटस्यायं स्पर्श इति, स चाप्युत्पन्नाविनष्टो यदि योग्यदेशस्थो भवति तदा परिच्छिनत्ति, न तु विप्रकृष्टदेशस्थमित्येतदाह-साम्प्रतकालविषयमिति । अनेन वर्तमानकालविषयतां मतिज्ञानस्यावेदयते । श्रुतज्ञानं तु, तुशब्दः भेदप्रदर्शनपर इति । तं भेदमाह - त्रिकालविषयम् । पुनश्चेदमैदम्पर्य व्याख्यानयति - उत्पन्नेत्यादिना । उत्पन्नो-- वर्तमानस्तमपि नोइन्द्रियं मनआख्यं परिचिन्तयति - कीदृशोऽयं कर्करस्पर्श इति, विनष्टमप्यन्यत्र लग्नं शर्करास्पर्शमतीतं चिन्तयति - अस्याः प्राक् शर्करायाः मया स्पर्शोऽनुभूत इति । अनुत्पन्नम्आगामिनमेवंविध एषां क्षीरगुडादीनां प्रतिविशिष्टात् संस्कारात् स्पर्श उपयास्यतीति, अत उत्पन्नादिग्राहकम् । पुनश्चोदयति- अवगतो विशेष एतयोः, अथ श्रुतज्ञानस्य द्विविधादिभेदः किंकृत इति ? सर्व तद्द्रव्यश्रुतं भावश्रुतस्य निमित्तमिति शक्यं वक्तुम् । एवमुक्ते सूरिराह- वक्तृविशेषाद् द्वैविध्यम् । यद् भगवद्भिः सर्वज्ञैः सर्वदर्शिभिः परमर्षिभिरर्हद्भिस्तत्स्वाभाव्यात् परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थकर नामकर्मणोऽनुभावादुक्तं भगवच्छिष्यैरतिशयवद्भिरुत्तमातिशयवाम्बु
भा०
---
१ 'वैदमेव पदं' इति ख- पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org