________________
सूत्र २०]
स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-श्रुतज्ञानमिति । मतिपूर्वमित्यस्यार्थ विवृणोति-मतिज्ञानपूर्वकं भवतीत्यनेन । मत्या कृतया ज्ञानं विशेषयति-मतिज्ञानमिति । तन्मतिज्ञानं पूर्व यस्य तन्मतिपूर्व भण्यते, अपेक्षाकारणं चेह पूर्वमित्यनेनोच्यते, यथा घटस्योत्पत्तावपेक्षाकारणं व्योमाद्यपेक्ष्यते, तेन विना तदभावात, एवमिह सति मतिज्ञाने लब्धिरूपे ततः श्रुतज्ञानस्योत्पत्तिरिष्टा न मतिज्ञानाभावे, किं पुनः कारणं तदेव मतिज्ञानं न श्रुतज्ञानीभवतीति मृत्तिकावद् घटरूपेण ? उच्यते-एवं सति श्रुतज्ञाने प्रादुर्भूते मतिज्ञानस्य नाशः स्यात्, न चैतदिष्यते । यत आह-"जत्थमई तत्थ सुअं, जत्थ सुअं तत्थ मई (जत्थ आभिणिवोहियनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थाभिणिबोहियनाणं"' नन्दी०मू०२४) । तस्मादपेक्षाकारणमेव मतिज्ञानं तस्योत्पत्तौ लब्धिरूपं भवति, न पुनः समवायिकारणमिति । एतच्च लक्षणमुक्तमेव, यतो मतिज्ञानभावे लक्ष्यते श्रुतमिति । एतच्च श्रुतज्ञानमेवमात्मकमिन्द्रियमनोनिमित्तं ग्रन्थानुसारि विज्ञानं यदिति, तं च ग्रन्थं दर्शयति बहुभिः पर्यायशब्दैः-श्रुतमाप्तवचनमित्यादिभिः। श्रूयते तदिति श्रुतम् , अस्मिन् पक्षे शब्दोऽभिधीयते, तस्य शब्दस्य श्रुतज्ञान-परिच्छेदकारि श्रुतज्ञानमिति गृह्यते । एवं सर्वेष्वाप्तवचनादिषु पष्ठीसमास आश्रयणीयः, आप्तवचनस्य ज्ञानं यत्परिच्छेदकारि इत्येवम्, आप्तो-रागादिवियुतः तस्य वचनमिति ॥ ननु चार्थमेव कथयति तीर्थकृत्, न सूत्रं ग्रथ्नाति, गणधरास्तु सूत्रसन्दर्भेण व्याप्रियन्ते, कथं तर्हि इदमुच्यते-आप्तस्य-तीर्थकृतो वचनं द्वादशाङ्गं-गणिपिटकमिति । उच्यते-गौणीकल्पनामाश्रित्योक्तमासस्य वचनमित्येतत् । कथम् ? यदा हि भगवान जीवादिकमर्थ केवलज्ञानभावत्प्रभावप्रकाशितं गणधरेभ्य आचष्टे तदाऽसौ जीवादिरर्थस्तस्मिन् केवलज्ञानदर्शनात्मके तीर्थकृति समारूढ इव लक्ष्यते प्रतिबिम्बाकारेणोपजायमानत्वात् अतोऽसावप्यर्थ आप्तो भवति, तदध्यारोपात, तस्याप्तस्यार्थस्य तद्गणधरवचनं प्रतिपादकमित्याप्तवचनं भण्यते। यद्वा गणधरवचनमेवाप्तवचनम्, निश्रयोपजायमानत्वात् आप्तवचनमुच्यते । एवमागमादिष्वपि घटमान
मायोज्यमिति । आगच्छत्याचार्यपरम्परया वासनाद्वारेणेत्यागमः, उपदिआगमादीनां व्युत्पत्त्यर्थः N श्यते-उच्चार्यते इत्युपदेशः, ऐतिह्यमेवमेतद वृद्धाः स्मरन्तीति, आम्ना
यते-अभ्यस्यते निजेरार्थिभिरित्याम्नायः, प्रकर्षेण नामादिनयप्रमाणनिर्देशादिभिश्च यत्र जीवादयो व्याख्यातास्तत् प्रवचनम्, जिना रागादिसन्तानविजि (वर्जि?) तास्तेपामिदं वचनमिति । एवमेभिरनन्तरवर्तिभिः एकोऽर्थः प्रतिपाद्यते द्वादशाङ्गं गणिपिटकमितियावत्, स चावश्यकादिराचारादिश्च ॥ एवं लक्षणतः पर्यायतथाभिधायामिधानं दर्शयति
१ यत्र मतिस्तत्र श्रुतं, यत्र श्रुतं तत्र मतिः ( यत्राभिनिबोधिकज्ञानं तत्र श्रुतज्ञानं, यत्र श्रुतक्षानं तत्राभिनिबोधिकज्ञानम् )।
२'दकमपीत्याप्त' इति ख-पाठः। १२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org