________________
सूत्रं १६]
स्वोपज्ञभाष्य-टीकालङ्कृतम् मुदेति तदा तदेवावधारणमिति भण्यते यस्मादवधारयति कालान्तरानुभूतमर्थमेवमेतन्मया सेवितमिति । सम्प्रति पर्यायशब्देस्तामेव त्रिप्रकारामाचष्टे-धारयत्यर्थ त्रिभिरप्येभिःप्रकारैःसा धारणा। प्रतिपत्तिर्नाम परिच्छिन्नेर्थे यावदन्यत्रोपयोगं न याति तावदनाशस्तस्यार्थस्य तस्मिन् विज्ञान इति । अवधारणं पुनः कालान्तरानुस्मरणमागृहीतम् । अवस्थानमित्यनेन तु अन्यत्र पदार्थे उपयुक्तस्य या लब्धिरूपा धारणा सा गृहीता । पुनरेषामन्ये त्रयो यथासहख्यकेन भेदा निदर्श्यन्ते-निश्चयोऽवगमोऽवबोध इति । निश्चय इत्ययं प्रतिपत्तिरित्यस्य पर्यायः, अवगम इत्ययं तु मत्यवस्थानस्य लब्धिरूपस्येति । अथवा अविशिष्टधारणायाः सर्व एते पर्याया इत्यनर्थान्तरमित्याह । भावना चैवं कार्या-अपवरकाद्यन्धकारस्थितेन पुंसा यदा स्पर्शनेन्द्रियेणोपलब्धमाघक्षणे सामान्यमनिर्देश्यमशेषकल्पनारहितं सोऽवग्रहः । यदा पुनस्तमेव विचारयति किमयं मृणालस्पर्श उताहिस्पर्श इति सेहा । यदाऽस्य निश्चितं भवति मृणालस्यैवायं नाहेरिति सोऽपायः । यदा तु निश्चितं सन्तमविच्युतिरूपेण धारयति लब्धिरूपेण वा कालान्तरानुस्मरणे वा सा धारणा । एवं रसनादिभिः रसादीनां योपलब्धिः सैकैका चतुर्विधा भावनीयेति ।। १५ ॥ ____ अत्राह-एते ह्यवग्रहादयो ज्ञानविशेषाः क्षयोपशमवैचित्र्यात् स्पर्शादिकमर्थमन्यथा वाऽन्यथा निश्चिन्वन्तस्तथाव्यपदेशभाज इत्युक्तम् ॥ अथैषां स्वस्थाने क्षयोपशमवैचित्र्यमस्ति नास्तीति । उच्यते-अस्ति, यतोऽवग्रहः क्षयोपशमोत्कर्षापकर्षापेक्षोऽनेकधा बहादेरर्थस्य परिच्छेदकः, एवमीहादयोऽपीति, एतदनेन प्रतिपादयति सूत्रेणसूत्रम्-बहुबहुविधक्षिपानिश्रितासन्दिग्धध्रुवाणां सेतराणाम् ॥१-१६॥
टी-बहुबहुविधेत्यादिना। श्रुतानुमितैश्च पदैः प्रायो व्याख्या सूत्राणाम् , इष्टेऽपि अनुमीयमानैरवग्रहादिभिर्बहादीनां सम्बन्धं लगयन्नाह
"भा०-अवग्रहादयश्चत्वारो मतिज्ञानविभागाः एषां बह्वादीनामर्थानां सेतराणां भवन्त्येकशः । सेतराणामिति-सप्रतिपक्षाणामित्यर्थः ।।
टी-अवग्रहादयश्चत्वार इत्यादि । अवग्रहादयः प्रागत्र (१.१५) निरूपितस्वरूपाः
र मूलभेदतश्चत्वार इति, क्षयोपशमवैचित्र्यात् तु नानाभेदास्त एव भवन्तीति अपग्रहादेबहाः
दवा मत्वा चत्वार इत्याह । मतिज्ञानस्य च प्रकृतत्वात् तद्भेदा एत इतिदयो भेदार
मतिज्ञानविभागा इत्याह, अवग्रहादयः । एतेऽवग्रहादयः एषां सूत्रो. पन्यस्तानां बहादीनां षण्णाम् अर्थानाम् अर्यमाणानामित्यर्थः । बहादीनां पण्णामर्थानां सेतराणां च तेऽवग्रहादयो ग्राहका इत्यर्थ इत्याह-सेतराणां भवन्तीति । एकश इति च। एकैकस्य बहादेरर्थकलापस्य सेतरस्य ग्राहका इति एकैकोऽवग्रहादिरेकशः। सेतर इत्यस्य चाडै नैवं ग्राह्यः-बहोरर्थस्य क्षिप्रार्थ इतर इति शक्यं वक्तुम्, एवं बहादीनामनिश्रितादिरितर
१ वाऽन्यथा' इति ख-ग-पाठः। २ त्रितानुकधुवा.' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org