________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ भा०-अवगृहीते विषये सम्यगसम्यगिति गुणदोषविचारणा अध्यवसायापनोदोऽपायः । अपायोऽपगमः, अपनोदः अपव्याधः, अपेतमपगतमपवि. मपनुत्यमित्यनर्थान्तरम् ॥ टी-अवगृहीते इत्यादि । अनेनापि क्रममाचष्टे, सामान्येनावगृहीते स्पर्शसा
मान्यविषये अनिर्देश्यादिरूपेःतत उत्तरकालमीहायां प्रवृत्तायां, कथमिति अपायस्य
चेत् ? उच्यते-सम्यगसम्यगित्येवं मृणालीस्पर्शः किमुताहिस्पर्श इति । स्वरूपम्
- मृणालीस्पर्श इत्येवमादानाभिमुखत्वात् सम्यक् न अहिस्पर्शोऽयमित्येवं परित्यागाभिमुखत्वादसम्यगिति, तत उत्तरकालं सम्यगित्यपायः प्रवर्तते, नत्वसत्येतस्मिन् द्वय इति । स पुनः किंरूपोऽपाय इति? उच्यते-गुणदोषेत्यादि । गुण इति यस्तस्मिन् साधारणो धर्मो मृणाले स गुणः, दोषस्तु यस्तत्र न सम्भवति धर्मः स दोपः, गुणश्च दोषश्च गुणदोषो तयोविचारणा-मागेणा गुपदाषविचारणा तया गुणदोषविचारणया यःप्रवर्ततेऽ ध्यवसाय:-चित्तं, कीदृशम् ? अपनोद इत्येवंरूपः, अपनुदतीत्यपनोदः सोऽध्यवसायोऽपनुदति तत्रासन्निहितधर्ममिति मृणालस्येवायं स्पर्शः अत्यन्तशीतादिगुणसमन्वितत्वादिति अस्यैवायमिति यः प्रत्ययोऽन्यस्य न भवतीति सः अपायः। संप्रत्येवं लक्षणतो निर्धारितस्वरूपं पर्यायशब्देस्तमेव व्यपदिशत्यनान्तरभूतैः अपायोऽपगम इत्यादिभिः । अपैतीत्यपायः, निश्चयेन परिच्छिनत्तीत्यर्थः । अपगच्छत्यपनुदति अपविध्यतीत्यर्थः । पुनश्चापाय इत्यस्य भावार्थमुररीकृत्य भावाभिधायिभिरेव कथयति-अपेतमपगतमित्यादिभिः । मृणालस्यैवायं स्पर्श इति येयं फलरूपा परिच्छितिस्वभावता ज्ञानस्येति सा भावाभिधायिभिरेभिरुच्यते, अपेतमपगतं परिच्छिन्नमेतन्मया एवमेतन्नान्यथेत्यर्थः। एवं निश्चितस्यार्थस्योत्तरकालं यदविसरणम् , अधुना यदा चान्यत्रार्थ उपयुक्तो भवति तदापि या वासना लब्धिरूपा यद् वाऽन्यस्मिन् कालान्तरेऽनुसरणमेतन्मया प्रागासे वितमित्येषा त्रिरूपा धारणाभिधीयते तां दर्शयति
भा०-धारणा प्रतिपत्तियथास्वं मत्यवस्थानमवधारणं च। धारणा प्रतिपत्तिरवधारणावस्थानं निश्चयः अवगमः अवबोध इत्यनर्थान्तरम् ॥१५॥ टी०-धारणाप्रतिपत्तिरित्यादिना।धारणेति लक्ष्यम्, प्रतिपत्तियथास्वमित्यनेनाद्य
भेदमादर्शयति, अस्मिन् काले निश्चितस्यार्थस्य यावदन्यत्र नोपयोगं याति धारणाया:
तावत् अर्थस्य यद् दर्शनमप्रच्युतिः साप्रतिपत्तिः यथास्वमित्युच्यते,प्रस्वरूपम्
तिपत्तिः-अप्रच्युतिः यथास्वं-यथाविषयं यो यः स्पशादिर्विपय आगृहीतः तस्याऽनाश इत्यर्थः । मत्यवस्थानमित्यनेन द्वितीयां लब्धिरूपांधारणां कथयति, यदा अपाय स्पर्शादेर्विषयस्य कृत्वाऽन्यत्रोपयुक्तो भवति तदाऽप्यसौ लब्धिरूपा धारणा समस्ति, अतो मत्यवस्थानमिति ब्रूते । मतेः धारणाख्याया अवस्थानं शक्तिरूपं मत्यवस्थानं भण्यते । अवधारणं चेत्यनेन तृतीयभेदं कथयति । यदा कालान्तरे तमेव प्रागनुभूतं विषयमालम्व्य ज्ञान
१'विचारणया ' इति ख-पाठः । २ ' ०मपनुत्त. ' इति घ-पाठः । '०वधारणमव० ' इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org