SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सूत्र १५] स्वोपज्ञभाष्य-टीकालङ्कृतम् वग्रहा, किं पुनः कारणमाचे क्षणे तं विषयं परिच्छेत्तुं यथावन शक्नोति परतच यथावच्छक्ष्यति । उच्यते-मतिज्ञानावरणीयकर्मणः स तादृशः क्षयोपशमो येनादौ तं विषय सामान्येन परिच्छिनत्ति, ईहायां चान्यादृशः क्षयोपशमो यतस्तमेव स्फुटतरमीहिष्यते, अपाये चान्यादृशः क्षयोपशमो येन तमेव विषयं स्फुटतरमवच्छिनत्तीति, धारणायामप्यन्या शो येनावधारयिष्यतीति, तस्मान्मलीमसत्वात् क्षयोपशमस्यादावव्यक्तमवधारणं यत् सोऽवग्रह इत्युच्यते। एवं स्वचिह्नतोऽवग्रहं निरूप्य पर्यायशब्दैस्तमेव कथयति-अव(ग्रहो ग्रहो)ग्रहणमालोचनावग्रहोऽभिधीयते अवधारणं चेति, योऽसौ सामान्यपरिच्छेदः स एभिः शब्दैरर्थतो नानात्वमप्रतिपद्यमानैरभिधीयते । एवमवग्रहं कथयित्वा ईहायाः स्वरूपमाचिख्यासुराह भा०-अवगृहीतम्। विषयाथैकदेशाच्छेषानुगमनम् । निश्चयविशेषजिज्ञासा चेष्टा ईहा । ईहा ऊहा तर्कः परीक्षा विचारणा जिज्ञासेत्यनर्थान्तरम् ।। टी.-अवगृहीतमित्यादि । अवगृहीतमित्यनेन क्रमं दर्शयति-सामान्येन गृहीते ईहा प्रवर्तते न पूर्वमेवेहेति, यदा हि सामान्येन स्पर्शनेन्द्रियेण स्पर्शसाईहायाः स्वरूपम् मान्यमागृहीतमनिर्देश्यादिरूपं तत उत्तरं स्पर्शभेदविचारणा ईहाभिधीयत इति । एतदाह-विषयाथै केत्यादि । विषयः-स्पर्शादिः स एव परिच्छेदकालेय॑मागत्वात्-परिच्छिद्यमानत्वादर्थ इत्युच्यते, विषयश्वासावर्थश्च विषयार्थः तस्यैकदेशः सामान्यमनिर्देश्यादिरूपं तस्मात् विषयाथैकदेशात् परिच्छिन्नादनन्तरं यत् शेषानुगमन शेषस्य-भेदविशेषस्येत्यर्थः । अनुगमनं विचारणं, शेषस्यानुगमनं विशेषविचारणमित्यर्थः। किमयं मृणालीस्पर्शः उताहो सर्पस्पर्श इति । न चैतत् संशयविज्ञानमिति युज्यते वक्तुम्, यतः संशयविज्ञानमेवंरूपं भवति यदनेकार्थावलम्बनमूर्ध्वतासामान्यं पश्यतः किमयं स्थाणुरुत पुरुष इति नैकस्यापि परिच्छेदं शक्तं कर्तुमिति तत् संशयविज्ञानमभिधीयते । ईहा पुनरेवंविधलक्षणविपरीता, यतः स्पर्शसामान्य उपलब्धे तदुचरकालं मृणालस्पर्शे सद्भूतविशेषादानप्रवृत्ता, असद्भूतविशेषपरित्यागप्रवृत्ता चेहेत्यभिधीयते। अमी पूर्व मृणालस्पर्श मया सद्भूता विशेषा अनुभूता इत्यतस्तदभिमुखाऽसौ, अमी च नानुभूता इति तत्परित्यागाभिमुखा, अतो न संशयविज्ञानेनास्याः साम्यमस्तीत्येतदाह-निश्चयविशेषजिज्ञासा ईहा। निश्चीयतेऽसाविति निश्चयः। कोऽसौ ? विशेष इत्याह, विशिष्यते-भिद्यतेऽन्यस्मादिति विशेषः, निश्चयश्चासौ विशेपश्च निश्चयविशेषः, निश्चितो विशेष इत्यर्थः, तस्य ज्ञातुमिच्छा या सा जिज्ञासा, विद्यमानाविद्यमानविशेषादानपरित्यागाभिमुखेत्यर्थः । सैवंविधा ईहाभिधीयते । एवं स्वचिन ईहां निरूप्य पर्यायशब्दैरर्थतो नानात्वमप्रतिपद्यमानैरसम्मोहाथ तामेवाचष्टे-ईहा ऊहा इत्यादि। यत्तद्विशेषविचारणं सा तदीहेत्येवात्राभिधीयते, चेष्टा ऊहा तकः परीक्षा विचारणा जिज्ञासेस्येवं नास्त्यर्थभेद एषां शब्दानाम् , सत्यपि चार्थभेदेऽन्यत्रेहा नार्थान्तरभूता एवैते, एकरूपस्वात् । ईहायाः स्वरूपमाख्याय अपायस्य तदनन्तरवर्तिनः स्वरूपं दिदर्शयिषुराह १'अवगृहीते' इति घ-पाठः, समीचीनतरथ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy