SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तच्चार्थाधिगमसूत्रम् ८४ [ अध्यायः १ इति, एतन्निरासायाह- सेतराणाम्, सप्रतिपक्षाणामित्यर्थः । एतत् कथयति- इतरशब्दस्य विरोधी योऽर्थः स वाच्यो भवति, बह्वर्थस्य च स्तोकार्थो विरोधी प्रतिपक्षः, इत्येवं शेषाणां प्रतिपक्षता ज्ञेया, एवं सम्बन्धं लगयित्वाऽर्थं कथयति भा०- बहवगृहणाति अल्पमवगृह्णाति । बहुविधमवगृहात एकविधमवगृह्णाति । क्षिप्रमवगृह्णाति चिरेणावगृहणाति । निश्रितमवगृणाति अनिश्रितमवगृह्णाति । असन्दिग्धमवगृह्णाति सन्दिवगृणाति । ध्रुवमवगृह्णाति अध्रुवमवगृह्णाति । इत्येवमीहादीनामपि विद्यत् ॥ १६ ॥ अल्पावग्रहः टी०-बद्दवगृह्णाति इत्यादिना ॥ ननु चावग्रहादयः प्रथमान्ताः श्रुताः पूर्वसूत्रे ( १ - १५ ), बहायचेह षष्ठ्यन्ता इति तत्रैवमर्थकथनं युक्तं - बहोरर्थ - स्यावग्रहः अल्पस्यार्थस्यावग्रह इति । उच्यते- नायं दोषः, यतोऽवग्रहादयः कर्तृसाधनाः तत्र श्रुताः, अवगृह्णातीत्यवग्रहः, ईहत इति ईहा, अपैंतीत्यपायः, धारयतीति धारणा, यश्वासौ ज्ञानांशोऽवगृह्णातीत्यादिरूपस्तस्यावश्यं कर्मणा भवियम् तच्चेह महादिभेदं सूत्रेण विषयात्मकं भण्यते, अतो नास्त्यर्थभेदो बहोरवग्रहः बहुमवगृह्णातीति, अनयोः एक एवार्थः, केवलं तु शब्दभेद उच्यते । स्पर्शनावग्रहस्तावदेवं बहुमवगृहाति शय्यायामुपविशन् पुमान् तत्स्थयोषितपुष्पवत्रचन्दनादिस्पर्श बहुं सन्तमेकैकं भेदेनावबुध्यते, अयं योषित्स्पर्शोऽयं च तल्लनपुष्पस्पर्शोऽयं च तद्गात्रानुलग्रचन्दनस्पर्शोऽयं चैतत्परिहितवस्त्रस्पर्शः अयमेतदाबद्धरसनास्पर्श इति, अतो बहुलस्पर्श भिन्नजातीयमवगृह्णातीति ॥ ननु चावग्रह एकसामयिकः शास्त्रे निरूपितो न चैकस्मिन् समये चैवैकावग्रह एवंविधो युक्तोऽल्पकालत्वादिति । उच्यते - सत्यमेवमेतत्, किंतु अवग्रहो द्विधा - नैयिको व्यावहारिकच ॥ तत्र नैश्वयिको नाम सामान्यपरिच्छेदः, स चैकसामयिकः शास्त्रेऽभिहितः, ततो नैश्वयिकादनन्तर मी हैवमात्मिका प्रवर्तते किमेष स्पर्श उतास्पर्श इति, तस्याश्चानन्तरोऽपायः स्पर्शोऽयमिति, अयं चापायः अवग्रह इत्युपचर्यते, आगामिनो भेदानङ्गीकृत्य यस्मादेतेन सामान्यमवच्छिद्यते । यतः पुनरेतस्मादीहा प्रवर्तिष्यते कस्यायं स्पर्शः ? पुनश्चापायो भविष्यत्यस्यायमिति, अयमपि चापायः पुनरवग्रह इत्युपचर्यते, अतोऽनन्तरवर्तिनी मीहामपायं चाश्रित्य एवं यावदस्यान्ते निश्चय उपजातो भवति, यत्रापरं विशेषं नाकाङ्क्षतीत्यर्थः । अपाय एव भवति न तत्रोपचार इति । अतो य एष औपचारिको ऽवग्रहस्तमङ्गीकृत्य बहु अवगृह्णातीत्येतदुच्यते, नत्वेकसमयवर्तिनं नैश्चयिकमिति, एवं बहुविधादिषु सर्वत्रौपचारिकाश्रयणाद् व्याख्येयमिति । सम्प्रति बहित्यस्य प्रतिपक्षं कथयति - अल्पमवगृह्णातीत्यनेन यदा तेषामेव योषिदा१' अनुक्तमवगृह्णाति उक्तमवगृह्णाति ' इति घ-पाठः । २ ' विन्द्यात् ' इति क-पाठः । ३ ' तथाश्रिताः' इति क - ख- पाठः । ४ ' बहुलस्पर्शे' इति ग-पाठः । " बह्नवग्रहस्य स्वरूपम् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004022
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorThakurprasad Sharma
PublisherShripalnagar Jain S M Derasar Trust
Publication Year
Total Pages518
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy