________________
रायचन्द्रजैनशास्त्रमालायाम् ___ अत्राह । यद्यपवर्तते कर्म तस्मात्कृतनाशः प्रसज्यते यस्मान्न वेद्यते । अथास्त्यायुष्कं कर्म म्रियते च तस्मादकृताभ्यागमः प्रसज्यते । येन सत्यायुष्के म्रियते च ततश्चायुष्कस्य कर्मण आफल्यं प्रसज्यते । अनिष्टं चैतत् । एकभवस्थिति चायुष्कं कर्म न जात्यन्तरानुबन्धि तस्मानापवर्तनमायुषोऽस्तीति । अत्रोच्यते । कृतनाशाकृताभ्यागमाफल्यानि कर्मणो न विद्यन्ते । नाप्यायुष्कस्य जात्यन्तरानुबन्धः । किं तु यथोक्तैरुपक्रमैरभिहतस्य सर्वसन्दोहेनोदयप्राप्तमायुष्कं कर्म शीघ्र पच्यते तदपवर्तनमित्युच्यते । संहतशुष्कतृणराशिदहनवत् । यथा हि संहतस्य शुष्कस्यापि तृणराशेरवयवशः क्रमेण दह्यमानस्य चिरण दाहो भवति तस्यैव शिथिलप्रकीर्णोपचितस्य सर्वतो युगपदादीपितस्य पवनोपक्रमाभिहतस्याशु दाहो भवति तद्वत् । यथा वा सङ्ख्यानाचार्यः करणलाघवार्थ गुणकारभागहाराभ्यां राशिं छेदादेवापवर्तयति न च सङ्कयेयस्यार्थस्याभावो भवति तद्वदुपक्रमाभिहतो मरणसमुद्धातदुःखार्त्तः कर्मप्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति न चास्य फलाभाव इति ॥ कि चान्यत् । यथा वा धौतपटो जलार्द्र एव संहतश्चिरेण शोषमुपयाति स एव च वितानितः सर्यरश्मिवाय्वभिहतः क्षिप्रं शोषमुपयाति न च संहते तस्मिन्प्रभूतस्नेहागमो नापि वितानितऽकत्नशोषः तद्वद्यथोक्तनिमित्तापवर्तनैः कर्मणः क्षिप्रं फलोपभोगो भवति। न च कृतप्रणाशाकृताभ्यागमाफल्यानि ॥
इति तत्त्वार्थाधिगमेऽर्हत्प्रवचनसङ्ग्रहे.
द्वितीयोऽध्यायः समाप्तः ॥ यहां कहते हैं कि यदि बद्ध आयुष्कर्म अपवर्तित अर्थात् न्यून वा नष्ट हो जाता है; तब तो कृतका नाश प्राप्त हुआ। क्योंकि उस कर्म अनुभव नहीं होता; और यदि यह कहो कि आयुषनाम कर्म तो रहता है और जीव मर जाता है, तो अकृतका अभ्यागम प्राप्त हुआ । अर्थात् आयुष् कर्मके नष्ट होनेपर तो कृत (किये हुएका) नाश प्राप्त हुआ; और आयुष् कर्मके रहते ही मृत्यु होनेपर अकृत (नहीं कियेका) अभ्यागम (आगमन) सूप दोष प्राप्त हुआ; और ऐसा होना अनिष्ट है । आयुष्कर्म केवल एक ही जन्मपर्यन्त स्थिर रहता है, वह जन्मान्तरके साथ अनुगामी नहीं हैं । इस हेतुसे आयषकर्मका अपवर्तन नही होता । अब यहांपर कहते हैं कि कृतनाश, अकृतका आगमन और फलका अभाव ये कोई भी कर्मके नहीं होते । और न बद्ध आयुष्कर्म अन्यजन्मका सम्बन्धी होता है । किन्तु पूर्वोक्त अपवर्तनके निमित्तभूत विषशस्त्रादि उपक्रमों अर्थात् आरंभोंसे अभिहत (ताडित) जो जीव है उसके सर्व सन्दोहसे अर्थात् समहरूपसे उदयको प्राप्त जो आयुष्कर्म है; उसका शीघ्र ही परिपाक होता है । यही शीघ्र परिपाक आयुष्कर्मका अपवर्तन कहा जाता है । और यह शीघ्र परिपाक ऐसे होता है, जैसे घनीभूत शुष्क तृणराशिका अग्निसे दहन । यदि मिले हुए भी शुष्क तृणकी राशिके यही एक २ अवयव जलें, तो चिरकालमें दाह होता है, परन्तु शिथिलता पूर्वक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org