________________
सभाष्यतत्त्वार्थाधिगमसूत्रम् ।
११ निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥७॥ सूत्रार्थ:-निर्देश (वस्तु नाम संकीर्तन ) स्वामित्व, साधन, अधिकरण, स्थिति, ' और विधान ( भेदसंख्या ) इनके द्वाराभी जीव आदि तत्त्वोंका ज्ञान होता है।
भाष्यम्-एभिश्च निर्देशादिभिः षभिरनुयोगद्वारैः सर्वेषां भावानां जीवादीनां तत्त्वानां विकल्पशो विस्तरेणाधिगमो भवति । तद्यथा । निर्देशः । को जीवः । औपशमिकादिभावयुक्तो द्रव्यं जीवः ।
विशेष व्याख्या—ये निर्देश आदि षट् अर्थात् छः जो अनुयोगद्वार हैं उनसे सब भावोंका जीव आदि तत्त्वोंका विकल्प तथा विस्तारसे बोध होता है। जैसे निर्देश-जीव क्या है ? उ० औपशमिक तथा क्षायिक आदि जो भाव हैं उनकरके सहित यह द्रव्यही जीव है॥
सम्यग्दर्शनपरीक्षायाम् । किं सम्यग्दर्शनम् । द्रव्यम् । सम्यग्दृष्टिजीवोऽरूपी नो स्कन्धो नो प्रामः ।। स्वामित्वम् । कस्य सम्यग्दर्शनमित्येतदात्मसंयोगेन परसंयोगेनोभयसंयोगेन चेति वाच्यम् । आत्मसंयोगेन जीवस्य सम्यग्दर्शनम् । परसंयोगेनजीवस्याजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पाः । उभयसंयोगेन जीवस्य नोजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा न सन्ति। शेषाः सन्ति॥ साधनं । सम्यग्दर्शनं केन भवति । निसर्गादधिगमाद्वा भवतीत्युक्तम् । तत्र निसर्गः पूर्वोक्तः । अधिगमस्तु सम्यग्व्यायामः । उभयमपि तदावरणीयस्य कर्मणः क्षयेणोपशमेन क्षयोपशमाभ्यामिति ॥ अधिकरणं त्रिविधमात्मसन्निधानेन परसन्निधानेनोभयसन्निधानेनेति वाच्यम् । आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः । परसन्निधानं बाह्यसन्निधानमित्यर्थः । उभयसन्निधानं बाह्याभ्यन्तरसन्निधानमित्यर्थः। कस्मिन्सम्यग्दर्शनम् । आत्मसन्निधाने तावत् जीवे सम्यग्दर्शनं, जीवे ज्ञानं, जीवे चारित्रमित्येतदादि । बाह्यसन्निधाने जीवे सम्यग्दर्शनं नोजीवे सम्यग्दर्शनमिति यथोक्ता विकल्पाः । उभयसन्निधाने चाप्यभूताः सद्भूताश्च यथोक्ता भङ्गविकल्पा इति ॥ स्थितिः । सम्यग्दर्शनं कियन्तं कालम् । सम्यग्दृष्टिर्द्विविधा । सादिः सपर्यवसाना सादिरपर्यवसाना च । सादि सपर्यवसानमेव च सम्यग्दर्शनम् । तज्जघन्येनान्तर्मुहूतै उत्कृष्टेन षट्षष्टिः सागरोपमानि साधिकानि । सम्यग्दृष्टिः सादिरपर्यवसाना । सयोगः शैलेशीप्राप्तश्च केवली सिद्धश्चेति ॥ विधानं । हेतुत्रैविध्यात् क्षयादित्रिविधं सम्यग्दर्शनम् । तदावरणीयस्य कर्मणो दर्शनमोहस्य च क्षयादिभ्यः । तद्यथा । क्षयसम्यग्दर्शनं, उपशमसम्यग्दर्शनं, क्षयोपशमसम्यग्दर्शनमिति । अत्र चौपशमिकक्षायौपशमिकक्षायिकाणां परतः परतो विशुद्धिप्रकर्षः ॥ किं चान्यत्।
तथा सम्यग्दर्शनकी परीक्षामें सम्यग्दर्शन क्या है ? द्रव्य सम्यग्दर्शन है. सम्यग्दृष्टि जीव रूपरहित नो स्कन्ध तथा नो ( ईषत् ) ग्राम है । स्वामित्व सम्यग्दर्शन किसका है वा किसको होता है ? इस हेतुसे कहते हैं कि यह सम्यग्दर्शन आत्माके संयोगसे ही आत्मासे भिन्न अन्य पुद्गल धर्म आदिके संयोगसे, तथा आत्मा और अनात्मा उभयके संयोगसे होता है, ऐसा कहना चाहिये । आत्माके संयोगसे जीवको सम्यग्दर्शन होता है, वा जीवका सम्यग्दर्शन अर्थात् सम्यग्दर्शनका स्वामी जीव है । तथा पर (आत्मासे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org