________________
२४४
रायचन्द्रजैनशास्त्रमालायाम् निरुपम (उपमारहित ), निरतिशय (जिससे बढ़के कोई सुख न हो ऐसा), नित्य निणि जो मोक्षरूप सुख है, उस मोक्षको यह जीव प्राप्त होता है ।
एवं तत्त्वपरिज्ञानाद्विरक्तस्यात्मनो भृशम् । । निरास्रवत्वाच्छिन्नायां नवायां कर्मसन्ततौ ॥१॥ पूर्जितं क्षपयतो यथोक्तैः क्षयहेतुभिः । संसारबीजं कात्न्येन मोहनीयं प्रहीयते ॥२॥ ततोऽन्तरायज्ञानघ्नदर्शनघ्नान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥ ३ ॥ गर्भसूच्यां विनष्टायां यथा तालो विनश्यति । . तथा कर्मक्षयं याति मोहनीये क्षयं गते ॥ ४ ॥ ततः क्षीणचतुष्कर्मा प्राप्तोऽथाख्यातसंयमम् । बीजबन्धननिर्मुक्तः स्नातकः परमेश्वरः ॥५॥ शेषकर्मफलापेक्षः शुद्धो बुद्धो निरामयः । सर्वज्ञः सर्वदर्शी च जिनो भवति केवली ॥ ६॥ कृत्स्नकर्मक्षयादूर्ध्व निर्वाणमधिगच्छति । यथा दग्धेन्धनो वह्निनिरुपादानसन्ततिः ॥ ७ ॥ दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे नारोहति भवाङ्करः ॥ ८ ॥ तदनन्तरमेवोर्ध्वमालोकान्तात्स गच्छति । पूर्वप्रयोगासङ्गत्वबन्धच्छेदोर्ध्वगौरवैः ॥९॥ कुलालचके दोलायामिषौ चापि यथेष्यते। पूर्वप्रयोगात्कर्मेह तथा सिद्धगतिः स्मृता ।। १०॥ मृल्लेपसङ्गनिर्मोक्षाद्यथा दृष्टाप्स्वलाबुनः । कर्मसङ्गविनिर्मोक्षात्तथा सिद्धगतिः स्मृता ॥ ११ ॥ एरण्डयन्त्रपेडासु बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात्सिद्धस्यापि तथेष्यते ॥ १२ ॥ ऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः । अधोगौरवधर्माणः पुद्गला इति चोदितम् ।। १३ ॥ यथाधस्तिर्यगूज़ च लोष्टवाय्वग्निवीतयः । स्वभावतः प्रवर्तन्ते तथोवे गतिरात्मनाम् ॥ १४ ॥ अतस्तु गतिवैकृत्यमेषां यदुपलभ्यते । कर्मणः प्रतिघाताच्च प्रयोगाच्च तदिष्यते ॥ १५ ॥ अधस्तिर्यगथोर्ध्व च जीवानां कर्मजा गतिः । उर्ध्वमेव तु तद्धर्मा भवति क्षीणकर्मणाम् ॥ १६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org