________________
सभाष्यतत्त्वार्थाधिगमसूत्रम् ।
२४५ द्रव्यस्य कर्मणो यद्वदुत्पत्त्यारम्भवीतयः। समं तथैव सिद्धस्य गतिमोक्षभवक्षयाः ॥ १७ ॥ उत्पत्तिश्च विनाशश्च प्रकाशतमसोरिह । युगपद्भवतो यद्वत् तथा निर्वाणकर्मणोः ॥ १८ ॥ तन्वी मनोज्ञा सुरभिः पुण्या परमभास्वरा । प्राग्भारा नाम वसुधा लोकमूनि व्यवस्थिता ॥ १९॥ नृलोकतुल्यविष्कम्भा सितच्छत्रनिभा शुभा। ऊर्ध्व तस्याः क्षितेः सिद्धा लोकान्ते समवस्थिताः ॥२०॥ तादात्म्यादुपयुक्तास्ते केवलज्ञानदर्शनैः । सम्यक्त्वसिद्धतावस्थाहेत्वभावाच्च निष्क्रियाः ॥ २१ ॥ ततोऽप्यूवं गतिस्तेषां कस्मानास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात्स हि हेतुर्गतेः परः ॥२२॥ संसारविषयातीतं मुक्तानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं परमं परमर्षिभिः ॥ २३ ॥ स्यादेतदशरीरस्य जन्तोर्नष्टाष्टकर्मणः । कथं भवति मुक्तस्य सुखमित्यत्र मे शृणु ॥ २४ ॥ लोके चतुविहार्थेषु सुखशब्दः प्रयुज्यते । विषये वेदनाभावे विपाके मोक्ष एव च ॥ २५ ॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः सुखितोऽस्मीति मन्यते ॥ २६ ॥ पुण्यकर्मविपाकाच सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच्च मोक्षे सुखमनुत्तमम् ॥ २७ ॥ सुस्वप्नसुप्तवत्केचिदिच्छन्ति परिनिर्वृतिम् । तदयुक्तं क्रियावत्त्वात्सुखानुशयतस्तथा ॥ २८ ।। श्रमक्लममदव्याधिमदनेभ्यश्च सम्भवात् । मोहोत्पत्तेविपाकाच्च दर्शनघ्नस्य कर्मणः ॥ २९ ॥ लोके तत्सदृशो ह्यर्थः कृत्स्नेऽप्यन्यो न विद्यते । उपगीयेत तद्येन तस्मानिरुपमं सुखम् ॥ ३० ॥ लिङ्गप्रसिद्धेः प्रामाण्यादनुमानोपमानयोः। अत्यन्तं चाप्रसिद्धं तद्यत्तेनानुपमं स्मृतम् ॥ ३१ ॥ प्रत्यक्षं तद्भगवतामहतां तैश्च भाषितम् ।।
गृह्यतेऽस्तीत्यतः प्राज्ञैर्नच्छद्मस्थपरीक्षया ॥ ३२ ॥ इति ॥ इस रीतिसे अर्थात् पूर्वकथित उपायोंसे तत्त्वोंके परिज्ञान अर्थात् पूर्णरूपसे सब जीव आदि तत्त्वोंके ज्ञान होनेसे सर्वथा विरक्तताको प्राप्त इस जीवके आस्रवके अभावसे
Jain Education International
For Personal & Private Use Only
'www.jainelibrary.org