________________
रायचन्द्रजैनशास्त्रमालायाम् प्रकारका होता है । मतिश्रुतादि जो ज्ञान हैं उनके भेदसे पांच प्रकारका ज्ञानावरण होता है । जैसे—मतिज्ञानावरण १ श्रुतज्ञानावरण २ अवधिज्ञानावरण ३ मनःपर्यायज्ञानावरण ४ तथा केवलज्ञानावरण ५ इस प्रकार प्रत्येक ज्ञानके साथ आवरणके विकल्प (भेद)समझने चाहिये ॥ ७ ॥
चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धिवेदनीयानि च ॥ ८॥
सूत्रार्थ-चक्षुरादि नवभेद दर्शनावरणके हैं । भाष्यम्-चक्षुर्दर्शनावरणं अचक्षुर्दर्शनावरणं अवधिदर्शनावरणं केवलदर्शनावरणं निद्रावेदनीयं निद्रानिद्रावेदनीयं प्रचलावेदनीयं प्रचलाप्रचलावेदनीयं स्त्यानगृद्धिवेदनीयमिति दर्शनावरणं नवभेदं भवति ।
विशेषव्याख्या-चक्षुर्दर्शनावरण १, अचक्षुर्दर्शनावरण २, अवधिदर्शनावरण ३, केवलदर्शनावरण ४, निद्रावेदनीय ५, निद्रानिद्रावेदनीय ६, प्रचलावेदनीय ७, प्रचलाप्रचलावेदनीय ८, स्त्यानगृद्धिवेदनीय ९, ये नौ (९) भेद दर्शनावरणके हैं ॥ ८ ॥
सदसद्धेद्ये ॥९॥ सूत्रार्थ-वेदनीय आवरणके सत् असत् दो भेद हैं। सद्वेद्यं असāद्यं च वेदनीयं द्विभेदं भवति । सूत्रार्थ—सद्वेद्य १ तथा असद्वेद्य २ इन भेदोंसे वेदनीय दो भेदसहित है ॥ ९॥ दर्शनचारित्रमोहनीयकषायनोकषायवेदनीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदाः ॥१०॥
भाष्यम्-त्रिद्विषोडशनवभेदा यथाक्रमम् । मोहनीयबन्धो द्विविधो दर्शनमोहनीयाख्यश्चारित्रमोहनीयाख्यश्च । तत्र दर्शनमोहनीयाख्यस्त्रिभेदः । तद्यथा । मिथ्यात्ववेदनीयं सम्यक्त्ववेदनीयं सम्यग्मिथ्यात्ववेदनीयमिति । चारित्रमोहनीयाख्यो द्विभेदः कषायवेदनीयं नोकषायवेदनीयं चेति । तत्र कषायवेदनीयाख्यः षोडशभेदः । तद्यथा । अनन्तानुबन्धी क्रोधो मानो माया लोभ एवमप्रत्याख्यानकषायः प्रत्याख्यानावरणकषायः संज्वलनकषाय इत्येकशः क्रोधमानमायालोमाः षोडश भेदाः ॥ नोकषायवेदनीयं नवभेदम् । तद्यथा । हास्य रतिः अरतिः शोकः भयं जुगुप्सा पुरुषवेदः स्त्रीवेदः नपुंसकवेद इति नोकषायवेदनीयं नवप्रकारम् । तत्र पुरुषवेदादीनां तृणकाष्ठकरीषाग्नयो निदर्शनानि भवन्ति । इत्येवं मोहनीयमष्ठाविंशतिभेदं भवति ॥
सूत्रार्थ-विशेषव्याख्या-तीन, दो, षोडश (सोलह ) तथा नव भेद यथाक्रमसे
For Personal & Private Use Only
www.jainelibrary.org