________________
सभाष्यतत्त्वार्थाधिगमसूत्रम् ।
१४५ अधिकरणं जीवाजीवाः ॥ ८॥ सूत्रार्थ-अधिकरण जीव तथा अजीव हैं। भाष्यम्-अधिकरणं द्विविधम् । द्रव्याधिकरणं भावाधिकरणं च । तत्र द्रव्याधिकरणं छेदनभेदनादि शस्त्रं च दशविधम् । भावाधिकरणमष्टोत्तरशतविधम् । एतदुभयं जीवाधिकरणमजीवाधिकरणं च ॥ तत्र. विशेषव्याख्या-अधिकरण दो प्रकारके होते हैं । एक द्रव्याधिकरण, दूसरा भावाधिकरण । इनमें द्रव्याधिकरण छेदनभेदनादि तथा शस्त्र जो कि दश प्रकारका है । और भावाधिकरण एकसौ आठ (१०८) हैं (अ. ६ सू. ९)। यह दोनों जीवाधिकरण और अजीवाधिकरणभी हैं ॥ ८ ॥ उनमेंसे:
आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥९॥
सूत्रार्थ-आद्य अर्थात् प्रथम जीवाधिकरण संरंभादिभेदसे संक्षेपसे तीन प्रकारका, पुनः वह एक २ तीन प्रकारका, पुनः वह एक २ तीन प्रकारका, और पुनः वह एक २ चार प्रकारका है।
भाष्यम्-आद्यमिति सूत्रक्रमप्रामाण्याज्जीवाधिकरणमाह । तत्समासतस्त्रिविधम्। संरम्भः समारम्भ आरम्भ इति । एतत्पुनरेकशः कायवाङमनोयोगविशेषात्रिविधं भवति । तद्यथाकायसंरम्भः वाक्संरम्भः मनःसंरम्भः कायसमारम्भः वाक्समारम्भः मनःसमारम्भः कायारम्भः वागारम्भः मनआरम्भ इति ॥ एतदप्येकशः कृतकारितानुमतविशेषात्रिविधं भवति । तद्यथा-कृतकायसंरम्भः कारितकायसंरम्भः अनुमतकायसंरम्भः कृतवाक्संरम्भ कारितवाक्संरम्भः अनुमतवाक्संरम्भः कृतमनःसंरम्भः कारितमनःसंरम्भः अनुमतमनःसंरम्भः एवं समारम्भारम्भावपि ॥ तदपि पुनरेकशः कषायविशेषाञ्चतुर्विधम् । तद्यथा-क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारितकायसंरम्भः मायाकारितकायसंरम्भः लोभकारितकायरम्भः क्रोधानुमतकायसंरम्भः मानानुमतकायसंरम्भः मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भः । एवं वाङ्मनोयोगाभ्यामपि वक्तव्यम् । तथा समारम्भारम्भौ ॥ तदेवं जीवाधिकरणं समासेनैकशः षट्त्रिंशद्विकल्पं भवति । त्रिविधमप्यष्टोत्तरशतविकल्पं भवतीति ।।
संरम्भः सकषायः परितापनंया भवेत्समारम्भः ।
आरम्भः प्राणिवधः त्रिविधो योगस्ततो ज्ञेयः ॥ विशेषव्याख्या—पूर्वसूत्र (८) क्रमके प्रमाणसे आद्यशब्दसे जीवाधिकरणका ग्रहण है । वह प्रथम संक्षेपसे संरम्भ, समारम्भ, और आरम्भ इन भेदोंसे तीन प्रकारका है । और यह एक २ काय, वाक्, तथा मनोरूप योगविशेषसे तीन २ प्रकारका है। जैसे-कायसंरम्भ, वाक्संरम्भ और मनःसंरम्भ; पुनः कायसमारंभ, वाक्समारम्भ, तथा मनःसमारम्भ; और काय-आरम्भ, वाक्-आरम्भ, वा मन-आरम्भ; इस प्रकारसे प्रत्येकके तीन २ भेद
Jain Education Internasal
For Personal & Private Use Only
www.jainelibrary.org