________________
___सभाष्यतत्त्वार्थाधिगमसूत्रम् । स्तेयब्रह्मचर्यापरिग्रहा यमाः” “शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः" इति आगमवचनं वचनमात्रम् । एवमेकान्ताध्रौव्येऽपि सर्वथा तदभावापत्तेः तत्त्वतो हेतुकत्वमेवावस्थान्तरमिति सर्वदा तद्भावाभावप्रसङ्गः अहेतुकत्वाविशेषात् । न हेतुस्वभावतयोर्ध्व तद्भावः तत्स्वभावतयैकान्तेन ध्रौव्यसिद्धेः । यदा हि हतोरेवासौ स्वभावो यत्तदनन्तरं तद्भावस्तदा ध्रुवोऽन्वयस्तस्यैव तथा भवनात् । एवं च तुलोन्नामावनामवद्धेतुफलयोयुगपद्वययोत्पादसिद्धिरन्यथा तत्तद्वयतिरिक्तेतरविकल्पाभ्यामयोगात् । तन्न। मनुष्यादेर्देवत्वमित्यायातं मार्गवैफल्यमागमस्येति । एवं सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाग् सम्यग्मार्गः सम्यगाजवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिरिति वाग्वैयर्थ्यम् । एवं घटव्ययवत्या मृदः कपालोत्पादभावात् उत्पादव्ययध्रौव्ययुक्तं सदिति । एकान्तध्रौव्ये तत्तथैकस्वभावतयावस्थाभेदानुपपत्तेः । समानं पूर्वेण । एवमेतद्व्यवहारतः तथा मनुष्यादिस्थितिद्रव्यमधिकृत्य दर्शितम् । निश्चयतस्तु प्रतिसमयमुत्पादादिमत्तथा भेदसिद्धेः । अन्यथा तदयोगात्। यथाह
सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥१॥ नरकादिगतिविभेदो भेदः संसारमोक्षयोश्चैव । हिंसादिस्तद्धेतुः सम्यक्त्वादिश्च मुख्य इति ॥ २॥ उत्पादादियुते खलु वस्तुन्येतदुपपद्यते सर्वम् । तद्रहिते तदभावात् सर्वमपि न युज्यते नीत्या ॥३॥ निरुपादानो न भवत्युत्पादो नापि तादवस्थ्येऽस्य । तद्विक्रिययापि तथा त्रितययुतेऽस्मिन् भवत्येषः ॥ ४ ॥ सिद्धत्वेनोत्पादो व्ययोऽस्य संसारभावतो ज्ञेयः ।
जीवत्वेन ध्रौव्यं त्रितययुतं सर्वमेवं तु ॥५॥ (एतच्च भाष्यं हारिभद्रवृत्तौ व्याख्यातमस्ति न च सिद्धसेनीयायामिति) तदित्थं उत्पादव्ययौ ध्रौव्यं चैतत्रितययुक्तं सतो लक्षणं । अथवा युक्तं समाहितं त्रिस्वभावं सत् । यदुत्पद्यते यद्वयेति यच्च ध्रुवं तत्सत् अतोऽन्यदसदिति ॥
उत्पाद, व्यय, और ध्रौव्य यह सत्का लक्षण है । जिससे इस संसारमें जीवका मनुध्यत्व आदि पर्यायरूपसे व्यय होता है, और देवत्व आदि पर्यायरूपसे उत्पत्ति होती है
और जीवरूपसे ध्रौव्य है । इस हेतुसे तीनों लक्षणयुक्त होनेसे सत् है । और (एकान्त) ( सर्वथा ) ध्रौव्य माननेसे और उसी ध्रौव्यरूप एक स्वभाव होनेसे आत्माकी अवस्था
ओंका भेद अयुक्त है । और जब आत्माकी सदा एकही अवस्था है तब संसार तथा मोक्षके भेदकाभी अभाव हुआ, अर्थात् सदा आत्माके एकरूप होनेपर संसारसे मोक्षमें क्या विशेषता है ? जिसके लिये अनेक प्रयत्न किये जाते हैं। और कदाचित् संसाराऽवस्था तथा मोक्षावस्थाके भेदको कल्पित मानो तो आत्माका संसारी स्वभाव न होनेसे उसकी उपलब्धि (प्राप्ति) के अभावका प्रसङ्ग हो जायगा । और जब आत्माका मनुष्यत्व देवत्व आदि संसारी पर्यायस्वभाव है तो एकान्तरूपसे ध्रौव्यका अभाव होगया, क्योंकि आत्माही
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org