________________
भद्रबाहु-चाणक्य-चन्द्रगुप्त कथानक गोवर्धनो विधायेममादेशं विधिपूर्वकम् । भद्रबाहुवटुं स्वान्ते चकार पितुवाक्यतः ॥१४॥ गोवर्धनमुनिः क्षिप्रं नानाशास्त्रार्थकोविदम् । चकार विधिवत् तत्र भद्रबाहुकुमारकम् ॥१५॥ ततः स्वजनकं प्राप्य दृष्ट्वाऽमुं विधिपूर्वकम् । आजगाम मुनेः पाश्वं मद्रबाहुवटुः पुनः ॥१६॥ महावैराग्यसंपन्नो ज्ञाननिष्णातबुद्धिकः । गोवर्धनसमीपेऽरं मद्रबाहुस्तपोऽग्रहीत् ॥१७॥ ततः स्तोकेन कालेन समस्तश्रुतपारगः। गोवर्धमप्रसादेन भद्रबाहुरभून्मुनिः ॥१८॥ श्रुतं समाप्तिमायातमिति सद्भक्तिनोदितम् । भद्र बाहुः प्रभातेऽसो कायोत्सर्गेण तस्थिवान् ॥१९॥ देवासुरनरैरेत्य भक्तिनिर्भरमानसः । भद्रबाहुरयं योगी पूजितो बहुपूजया ॥२०॥ अथ धर्मोपदेशेन समस्तगणपालकः । बभूवासो सदाचारः श्रुतसागरपारगः ॥२१॥ नानाविधं तपः कृत्वा गोवर्धनगुरुस्तदा । सुरलोकं जगामाशु देवीगीतमनोहरम् ॥२२॥ अवन्तीविषयोद्भूतश्रीमदुज्जयनीपुरी । आसीन्मनोहरी वापी सौधापणसरोवरैः ॥२३॥ श्रीमदुज्जयिनीपावलग्नसिप्रानदीतटे । बभूवोपवनं रम्यं नानातरुकदम्बकैः ॥२४॥ चतुर्विधन संघेन महता परिवारितः । इदं वनं . परिप्राप भद्रबाहुमहामुनिः ॥२५॥ तत्काले तत्पुरि श्रीमांश्चन्द्रगुप्तो नराधिपः । सम्यग्दर्शनसंपन्नो बभूव श्रावको महान् ॥२६॥ कनकनकसद्वर्णा विद्युत्पुञ्जसमप्रभा। अभवत् तन्महादेवी सुप्रमा नाम विश्रुता ॥२७॥ अन्यदाऽनुक्रमेणायं भिक्षार्थ गृहतो गृहम् । भद्रबाहुमहायोगी विवेश स्थिरमानसः ॥२८॥ .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org