________________
परिशिष्ट : १
भद्रबाहुकथानकम् अथास्ति विषये कान्ते पौण्डवर्धननामनि । कोटीमतं पुरं पूर्व देवकोट्टं च सांप्रतम् ॥१॥ तत्र पारथो राजा नताशेषनरेश्वरः । बभूव तन्मता देवी पद्मश्रीरतिवल्लभा ॥२॥ अस्यैव भूपतेरासीत् सोमशर्माभिधो द्विजः। रूपयौवनसंयुक्ता सोमश्री तत्प्रिया प्रिया ॥३॥ कुर्वाणः सर्वबन्धूनां भद्रं भद्राशयो यतः। भद्रबाहुस्ततः ख्यातो बभूव तनयोऽनयोः ॥४॥ भद्रबाहुः समुसः सन् बहुभिर्ब्रह्मचारिभिः । देवकोटपुरान्तेऽसौ रममाणो वितिष्ठते ॥५॥ एवं हि तिष्ठताऽनेन रममाणेन तत्पुरे । कुमारैर्बहुभिः सार्धमनया क्रीडया यषा ॥६॥ एकस्य विहितो वट्टो वट्टकस्योपरि द्रुतम् । त्रयोदशामुना तेषु चतुर्दश निषापिताः ॥७॥ अत्रान्तरे महामानो वर्धमानः सुरस्तुतः । निर्वाणमगमद् बीरो हतकर्मकदम्बकः ॥८॥ गोवर्धनश्चतुर्थोऽसावाचतुर्दशपूर्विणाम् । निर्मलीकृतसर्वाशो ज्ञानचन्द्रकरोत्करैः ॥९॥ उर्जयन्तं गिरि नेमि स्तोतुकामो महातपाः । विहरन् क्वापि संप्राप कोटोनगरमध्वजम् ॥१०॥ भद्रबाहुकुमारं च स दृष्ट्वा नगरे पुनः । उपर्युपरि कुर्वाणं तांश्चतुर्दशवट्टकान् ॥११॥ पूर्वोक्तपूविणां मध्ये पञ्चमः श्रुतकेवली । समस्तपूर्वधारी च नानद्धिगणभाजनः ॥१२॥ देवदानवलोकार्यों भद्रबाहुरयं वटुः । स्तोकैरेव दिनैनं भविष्यति तपोनिधिः ॥१३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org