________________
पाक्षिकाचार
(इन्द्रवज्जा)
निर्ग्रन्थसाधुः सुखदः सदैव मान्योऽपि बन्द्योऽखिलविश्वशान्त्यै । त्याज्यस्तदन्योऽखिलविश्ववैरी स्यान्निश्चयो यस्य स पाक्षिकोऽस्ति । । ५ । ।
निर्ग्रन्थसाधुरित्यादि- -यस्य पुरुषस्य सद्गुरोर्विषयेऽनेन प्रकारेण निश्चयो वर्तते स एव पाक्षिकः श्रावकः। यत् अखिलविश्वशान्त्यै सद्गुरुरेव माननीयः । लोकेऽस्मिन् पण्डितंमन्या बहवो वेषधारिण आत्मनो गुरुत्वं द्योतयन्तः परिभ्रमन्ति किन्तु न ते सद्गुरवः । यः खलु परिग्रहाशाम्परित्यज्य केवलं परोपकारवृत्तित्वाच्छन्मार्गमुपदिशति स एव सद्गुरुः । स एव सद्गुरु यः खलु निर्ग्रन्थः ग्रन्थेन धनधान्यादिदशविधेन बाह्येन, क्रोधाद्यात्मकेन चतुर्दशभेदेनान्तरङ्गेण च परिग्रहेण रहितो निःसंग इति यावत् । तथा स एव सद्गुरुः यः स्वपरोपकारं साध्यति । तत्साधनमेव यस्य ध्येयं स साधुः। प्राणिनां कल्याणकारकमार्गप्रदर्शकत्वात् स एव सुखदो भवति, स एव माननीयः वन्दनीयश्च भवति । एवंभूतेनैव गुरुणा लोके पारस्परिकवैरविरोधपरिहारेण शान्तिर्भवति । तद्भिन्नः खलु विषयाभिलाषी तदभिलाषसाधकः कुगुरुः स्यात् । कुगुरुः किल न केवलं स्वात्मानं नाशयति अपि तु अखिललोकान् स्वविषयाभिलाषपोषणाय कुमार्गं दर्शयन् तेषां प्रति शत्रुत्वं करोति । अत एव स खलु विश्ववैरी । अनादिपरम्परया परिभ्रमन्तः प्राणिनः संसारदुःखादात्मनस्समुद्धारवाञ्छया धर्मोपदेशिनां सद्गुरुणां चरणानाश्रयन्ति। मिथ्यागुरुः किल दुःखादुद्विग्नानां तेषां शिष्याणां वैराग्यभावनया स्वार्थसाधनाय गुरुवेषमङ्गीकृत्य संसारमार्गभीताञ् शिष्यान् कुमार्गं नयति । अतएव स स्वपरकल्याणद्रोही विश्ववैरी एव। विश्वं कलहकारिणि दुखात्मके विषयाभिलाषमार्गे परिभ्रामयन् तद्वैरित्वं स्थापयति । अतएव च विश्ववैरी। अतएव सोऽवश्यमेव त्याज्यः ।। ५ ।।
संसार में शान्ति स्थापन करनेवाला परिग्रह और विषयाभिलाषा से रहित स्व-परोकार - साधक साधु ही सदा माननीय व वन्दनीय सुखदाता होता है। इससे भिन्न संसार के दुःखों से उद्विग्न पुरुषों को कुमार्ग में ले जानेवाला कुगुरु विश्व का वैरी है। अतएव वह त्याग देने योग्य है, ऐसा जिसके हृदय में निश्चय है वह विचारवान् पाक्षिक श्रावक है।
भावार्थ - इस संसार में अनादि परम्परा से नाना योनियों में परिभ्रमण करता और तरह-तरह के दुःख उठाता हुआ यह प्राणी जब अपने कल्याण मार्ग के ढूँढ़ने की अभिलाषा से धर्म का आश्रय पकड़ने के लिए फिरता है उस मसय अपने स्वार्थ के साधन करने की इच्छा रखनेवाले अनेक विषयाभिलाषी पुरुष उसे धोखा देकर भी स्वार्थ सिद्ध कर लेने की गरज से गुमराह करते हैं। संसारोद्धारक, परमवीतरागी, निस्पृह, विषयों की वांछा से दूर और धन-वैभव को लात मारकर आत्मशुद्धि के लिए तपस्या का मार्ग आश्रय करने वाले सच्चे साधुओं के विशुद्ध मार्ग को मलिन करनेवाले ऐसे बहुत से साधु हैं जो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org