SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ नैष्ठिकाचार २३३ अपनी आत्मा से भिन्न मूर्तिक या अमूर्तिक पर पदार्थों का विचार कर व चिह्नों से उनकी परीक्षा कर उनमें न उलझना तथा उन्हें आत्महित का बाधक समझ उनकी उपेक्षा करना और स्वात्मचिंतन कर स्वात्मा में लीन होना उसमें ही निवास करना सामायिक व्रत है। इस सर्वोच्च अवस्था की प्राप्ति के लिए ही नाम स्मरण तथा प्रतिक्रमण का उपदेश दिया गया है।१८७।१८८। सामायिक के करणीय कार्यों को ५ भागों में आचार्य विभक्त करते हैं। उनका वर्णन आगे दिया जाता है। (अनुष्टुप्) सिद्धार्हद्वन्दनां कृत्वा भक्त्यात्मनः स्पृहोज्झनात् । स्वात्मोत्थरसपानं हि श्रीदं स्याद्वन्दनाव्रतम् ।।१८९।। चतुर्विंशतिदेवानां गुणान् स्तुत्वाऽऽत्मनोऽर्थतः । स्तुतिव्रतं वरं स्याद्धि चिद्रूपोत्थान्नभक्षणम् ।।१९०।। द्रव्यादौ स्वकृतं त्यक्त्वा विभावमात्मनस्तमः । स्थितिरेवात्मसौख्ये हि स्यात्प्रतिक्रमणं व्रतम् ।।१९१।। सावद्यद्रव्यसंजातं दोष मुक्त्वात्मनः स्पृहाम् । शुद्धद्रव्ये स्थितिं कुर्यात् प्रत्याख्यानव्रतं भवेत् ।।१९२।। स्वात्मास्ति शुद्धचिद्रूपो भिन्नो मे देहतः सदा । मत्वेत्यात्मनिवासः स्यात्कायोत्सर्गव्रतं वरम् ।।१९३।। कुलकम् ।। सिद्धार्हदित्यादि:- जिनवन्दना जिनस्तुतिः प्रतिक्रमणं प्रत्याख्यानं कायोत्सर्गश्चेति पञ्चाङ्गानि सामायिकस्येति निरूपितानि आचार्येण। तद्विस्तरः १-लौकिकलाभादिकमनपेक्ष्य सम्यक्त्वोत्पन्नजिनभक्तितोऽर्हतां सिद्धानामात्मरूपाणां वन्दना करणीया। अर्हन्तः सिद्धाश्च द्रव्यकर्मभावकर्मविमुक्तत्वात् शुद्धस्वात्मस्वरूपं प्रपन्नाः तेषां स्वरूपचिन्तनाद् भाक्तिकस्य स्वात्मामृतरसस्य स्वादनम्भवति। तदानन्द एव तस्य कल्याणप्रदोऽस्ति। इदमेव प्रथमं वन्दनाव्रतमस्ति। २-वृषभादिमहावीरपर्यन्तानां वर्तमानचतुर्विंशतितीर्थकराणाम् अतीतानागततीर्थकराणाञ्च गुणान् स्मारं स्मारं स्वात्मन्यपि गुणाश्चैते स्वरूपेण सन्त्येव इति जिनस्तुतिप्रकरणेन स्वात्मगुणज्ञानं प्रकारान्तरेण स्वात्मोत्त्थगुणा एव वान्यानि तद्भक्षणात् आत्मानाशः स्तुतिव्रतं भवति द्वितीयमिति। ३-यन्मया पूर्व कृतोऽपराधः स मे.मिथ्या भवतु। मम कृतदोषप्रक्षालनम्भवतु। इत्येवं प्रकारेण दिवसदोषान् रात्रिदोषान् ई-पथदोषान् पक्षदोषान् चातुर्मासदोषान् वार्षिकदोषान् मरणकाले जीवनदोषांश्च स्वात्मनो निन्दागर्हाऽलोचनपूर्वक Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004002
Book TitleShravak Dharm Pradip
Original Sutra AuthorN/A
AuthorJaganmohanlal Shastri
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year1997
Total Pages352
LanguageHindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy