SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ कलशोत्सवमें श्री पं. अम्बादासजी शास्त्रीका भाषण 201 बहुभावनिर्भरविश्वे सर्वभावानां स्वभावेनाद्वैतेऽपि द्वैतस्य निषेद्धुमशक्यत्वात् समस्तमेव वस्तु स्वपररूपप्रवृत्तिव्यावृत्तिभ्यामुभयभावाध्यासितमेव । तत्र यदायं ज्ञानमात्रो भावः शेषभावैः सह स्वरसभरप्रवृत्तज्ञातृज्ञेयसम्बन्धतयाऽनादिज्ञेयपरिणमनात् ज्ञानत्वं पररूपेण प्रतिपद्याज्ञानी भूत्वा तमुपैति तदा स्वरूपेण तत्त्वं द्योतयित्वा ज्ञातृत्वेन परिणमनात् ज्ञानी कुर्वन्ननेकान्त एव तमुद्गमयति । १. यदा तु सर्व वै खल्विदमात्मेति अज्ञानत्वं ज्ञानरूपेण प्रतिपद्य विश्वोपादानेनात्मानं नाशयति तदा पररूपेण तत्त्वं द्योतयित्वा विश्वाद् भिन्नं ज्ञानं दर्शयन् अनेकान्त एव नाशयितुं न ददाति। २. यदानेकज्ञेयाकारैः खण्डितसकलैकज्ञानाकारो नाशमुपैति तथा द्रव्येणैकत्वं द्योतयन् अनेकान्त एव तमुज्जीवयति । ३. यदा त्वेकज्ञानाकारोपादानायानेकज्ञेयाकारत्यागेनात्मानं नाशयति तदा पर्यायैरनेकत्वं द्योतयन् अनेकान्त एव नाशयितुं न ददाति। ४. यदा ज्ञायमानपरद्रव्यपरिणमनात् ज्ञातृद्रव्यं परद्रव्यत्वेन प्रतिपद्य नाशमुपैति तदा स्वद्रव्येण सत्त्वं द्योतयन् अनेकान्त एव तमुज्जीवयति। ५. यदा तु सर्वद्रव्याण्यहमैवेति परद्रव्यं ज्ञातृद्रव्यत्वेन प्रतिपद्यात्मानं नाशयति तदा परद्रव्येणासत्त्वं द्योतयन् अनेकान्त एव नाशयितुं न ददाति। ६. यदा परक्षेत्रगतज्ञेयार्थपरिणमनात् परक्षेत्रेण ज्ञानं सत् प्रतिपद्य नाशमुपैति तदा स्वक्षेत्रेणास्तित्वं द्योतयन्ननेकान्त एव तमुज्जीवयति । ७. यदा तु स्वक्षेत्रे भवनाय परक्षेत्रे ज्ञेयाकारत्यागेन ज्ञानं तुच्छीकुर्वन्नात्मानं नाशयति तदा स्वक्षेत्र एव ज्ञानस्य परक्षेत्रगतज्ञेयाकारपरिणमनस्वभावत्वात् परक्षेत्रेण नास्तित्वं द्योतयन्ननेकान्त एव नाशयितुं न ददाति। ८. यदा पूर्वालम्बितार्थविनाशकाले ज्ञानस्यासत्त्वं प्रतिपद्य नाशमुपैति तदा स्वकाले न सत्त्वं द्योतयन्ननेकान्त एव तमुज्जीवयति । ६. यदा त्वर्थालम्बनकाल एव ज्ञानस्य सत्त्वं प्रतिपद्यात्मानं नाशयति तदा परकालेनासत्त्वं द्योतयन्ननेकान्त एव नाशयितुं न ददाति। १०. यदा ज्ञायमानपरभावपरिणमनात् ज्ञायकभाव परभावत्वेन प्रतिपद्य नाशमुपैति तदा स्वभावेन सत्त्वं द्योतयन्ननेकान्त एव तमुज्जीवयति। ११. यदा तु सर्वे भावा अहमेवेति परभावं ज्ञायकभावत्वेन प्रतिपद्यात्मानं नाशयति तदा परमविनाशत्वं द्योतयन्ननेकान्त एव नाशयितुं न ददाति । १२. यदा नित्यज्ञानविशेषैः खण्डितनित्यज्ञानसामान्यो नाशमुपैति तदा ज्ञानसामान्यरूपेण नित्यत्वं द्योतयन् अनेकान्त एव नाशयितुं न ददाति । १३. यदा तु नित्यज्ञानसामान्योपादानायानित्यज्ञानविशेषत्यागेनात्मानं नाशयति तदा ज्ञानविशेषरूपेणानेकत्वं द्योतन्ननेकान्त एव तं नाशयितुं न ददाति । १४........।' यह गद्य श्री अमृतचन्द्र स्वामीने समयसारके अन्त में जो स्याद्वादाधिकार है उसमें लिखी है। इसका भाव यह है कि-स्याद्वाद ही एक समस्त वस्तुका साधनेवाला निर्बाध अर्हन्त भगवानका शासन है और वह समस्त पदार्थों को अनेकान्तात्मक अनुशासन करता है, क्योंकि सकल पदार्थ अनेक धर्मस्वरूप हैं। इस अनेकान्तके द्वारा जो पदार्थ अनेक धर्मस्वरूप कहे जाते हैं वह असत्य कल्पना नहीं हैं, बल्कि वस्तुस्वरूप ही ऐसा है। यहाँ पर जो आत्मा नामक वस्तुको ज्ञानमात्र कहा है उसमें स्याद्वादका विरोध नहीं है। ज्ञानमात्र जो आत्मवस्तु है वह स्वयमेव अनेकान्तात्मक है। यही दिखलाते हैं-अनेकान्तका ऐसा स्वरूप है कि जो वस्तु तत्स्वरूप है वही वस्तु अतत्स्वरूप भी है, जो वस्तु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004000
Book TitleMeri Jivan Gatha
Original Sutra AuthorN/A
AuthorGaneshprasad Varni
PublisherGaneshprasad Varni Digambar Jain Sansthan
Publication Year2006
Total Pages460
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy