________________
लूणवसतिलेखाः।
सर्वैरपि तथा एतदीयसंतानपरंपरया च धर्मस्थानमिदमाचंद्रार्क यावत् परिरक्षणीयं ॥ यतः ।
किमिह कपालकमंडलुवल्कलसितरक्तपटजटापटलैः । व्रतमिदमुज्ज्वलमुन्नतमनसां प्रतिपन्ननिर्वहणं ॥छ।। (*)
तथा महाराजकुल श्रीसोमसिंहदेवेन अस्यां श्रीलनसिंहवसहिकायां श्रीनेमिनाथदेवाय पूजांगभोगार्थ वाहिरहयां डवाणीग्रामः शासनेन प्रदत्तः । स च श्रीसोमसिंहदेवाभ्यर्थनया प्र(पर)मारान्वयिभिराचंद्रार्क यावत् प्रतिपाल्यः ॥*।। (*)
सिद्धिक्षेत्रमिति प्रसिद्धमहिमा श्रीपुंडरीको गिरिः
श्रीमान् रैवतकोपि विश्वविदितः क्षेत्रं विमुक्तेरिति । नूनं क्षेत्रमिदं द्वयोरपि तयोः श्रीअर्बुदस्तत्प्रभू
भेजाते कथमन्यथा सममिमं श्रीआदिनेमी स्वय ॥१॥ संसारसर्वस्वमिहैव मुक्तिस(*)र्वस्वमप्यत्र जिनेश दृष्टं । विलोक्यमाने भवने तवास्मिन् पूव्वं परं च त्वयि दृष्टिपाथ ॥२॥
श्रीकृष्णर्षीयश्रीनयचंद्रमरेरिमे ॥ सं० सरवणपुत्र सं० सिंहराज साधू साजण सं० सहसा साइदे पुत्री सुनथव प्रणमति ॥ शुभं ॥ छ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org