________________
अ. प्रा. जैनलेखसन्दोहे
, अस्ति स्वस्तिनिकेतनं तनुभृतां श्रीवस्तुपालानुज
स्तेजःपाल इति स्थिति बलिकृतामुर्वीतले पालयन् । आत्मीयं ब(*)हुमन्यते न हि गुणग्रामं च कामंदकि
चाणक्योऽपि चमत्करोति न हृदि प्रेक्षास्पदं प्रेक्ष्य यं ॥४९॥
महं० श्रीतेजःपालस्य पत्न्याः श्रीअनुपमदेव्याः पितृवंशवर्णनं । प्राग्वाटान्वयमंडनैकमुकुटः श्रीसांद्रचंद्रावती
वास्तव्यः स्त(*)वनीयकीर्तिलहरिप्रक्षालितक्ष्मातलः । श्रीगागाभिधया सुधीरजनि यद्वृत्तानुरागादभूत् ।
को नाप्तप्रमदो न दोलितशिरा नोद्भूतरोमा पुमान् ॥५०॥ अनुसृतसजनसरणिधरणिगनामा बभूव तत्तनयः । स्वप्रभुहृदये(*)गुणिना हारेणेव स्थितं येन ॥५१॥ त्रिभुवनदेवी तस्य त्रिभुवनविख्यातशीलसंपन्ना । दयिताऽभूदनयोः पुनरंगं द्वधा मनस्त्वेकं ॥५२॥ अनुपमदेवी देवी साक्षादाक्षायणीव शीलेन । तद्दहिता सहिता श्रीतेजःपालेन(*) पत्याऽभूत् ॥१३॥ इयमनुपमदेवी दिव्यवृत्तप्रसून
व्रततिरजनि तेजःपालमंत्रीशपत्नी । नयविनयविवेकौचित्यदाक्षिण्यदान
प्रमुखगुणगणेंदुद्योतिताशेषगोत्रा ॥५४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org