________________
तृणवसतिलेखाः ।
इतश्च----
अन्वयेन विनयेन विद्यया
विक्रमेण सुकृतक्रमेण च । क्वापि कोऽपि न पुमानुपैति मे
वस्तुपालसदृशो दृशोः पथि ॥४३॥
दयिता ललितादेवी तनयमवीतनयमाप सचिवेंद्रात् । नाम्ना जयंत(*)सिंहं जयंतमिंद्रात्पुलोमपुत्रीव ॥४४॥ यः शैशव विनयवैरिणि बोधवंध्य
धत्ते नयं च विनयं च गुणोदयं च । मोऽयं मनोभवपराभवजागरूक
रूपो न कं मनसि चुंबति जैत्रसिंहः ॥४५॥ श्रीवस्तुपालपुत्रः कल्पायुरयं जयं(*)तसिंहोऽस्तु । कामादधिकं रूप निरूप्यते यस्य दानं च ॥४६॥ स श्रीतेजःपालः सचिवश्विरकालमस्तु तेजस्वी । येन जना निश्चिताश्चिंतामणिनेव नंदति ॥४७॥ यच्चाणक्यामरगुरुमरुद्धयाधिशुक्रादिकानां
प्रागुत्पादं व्यधित भुवने(*)मंत्रिणां बुद्धिधाम्नां । चक्रेऽभ्यासः स खलु विधिना नूनमेन विधातुं
तेजःपाल कथमितरथाधिक्यमापैष तेषु ॥४८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org