________________
अ. प्रा. जैनलेखसन्दोहेसोऽयं पुनर्दाशरथिः पृथिव्या
__मव्याहतौजाः स्फुटमुज्जगाम । मारीचवैरादिव योऽधुनापि
मृगव्यमव्यग्रमतिः करोति ॥३७॥ साम(*)तसिंहसमितिक्षितिविक्षतौजः
__श्रीगूर्जरक्षितिपरक्षणदक्षिणासिः । प्रादनस्तदनुजो दनुजोत्तमारि
चारित्रामत्र पुनरुज्ज्वलयांचकार ॥३८॥ देवी सरोजासनसंभवा कि
कामप्रदा किं सुरसौरभयो । प्रह्लादनाकारधरा(*)धराया
मायातवत्येष न निश्चयो मे ॥३९॥ धारावर्षसुतोऽयं जयति श्रीसोमसिंहदेवो यः । पितृतः शौर्य विद्यां पितृव्यकादानमुभयतो जगृहे ॥४०॥ मुक्त्वा विप्रकरानरातिनिकरान्निर्जित्य तत्किञ्चन
प्रापत्संप्रति सोम(*)सिहनपतिः सोमप्रकाशं यशः । येनोर्वीतलमुज्ज्वलं रचयताप्युत्ताम्यतामीर्ण्यया
सर्वेशा(षा)मिह विद्विषां नहि मुखान्मालिन्यमुन्मूलितं ॥४१॥ वसूदेवस्येव सुतः श्रीकृष्णः कृष्णराजदेवोऽस्य । मात्राधिकप्रतापो यशोद(*)यासंश्रितो जयति ॥४२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org