________________
लूणवसतिलेखाः ।
श्रेयःश्रेष्ठवशिष्ठहोमहुतभुक्कुंडान्मृतंडात्मज
प्रद्योताधिकदेहदीधितिभ(*)रः कोऽप्याविरासीन्नरः । तं मत्वा परमारणैकरसिकं स व्याजहार श्रुते
राधारः परमार इत्यननि तन्नामाऽथ तस्यान्वयः ॥३२॥ श्रीधमराजः प्रथमं बभूव
भूवासवस्तत्र नरेंद्रवंशे। भूमी(मि)भृतो यः कृतवानभिज्ञान्
पक्षद्वयोच्छे (*)दनवेदनासु ॥३३॥ धंधुकधुवभटादयस्तत
स्ते रिपुद्विपघटाजितोऽभवन् । यत्कुलेऽजनि पुमान्मनोरमो
रामदेव इति कामदेवजित् ॥३४॥ रोदःकंदरवर्तिकीर्तिलहरीलिप्तामृतांशुद्यते
रप्रद्युम्नवशो यशोधवल इ(*)त्यासीत्तनूजस्ततः । यश्चौलुक्यकुमारपालनृपतिप्रत्यर्थितामागतं
__ मत्वा सत्वरमेव मालवपति ब(व)ल्लालमालब्धवान् ॥३५॥ शत्रुश्रेणीगलविदलनोन्निद्रनिस्त्रिशधारो
धारावर्षः समजनि सुतस्तस्य विश्वप्रशस्यः । क्रोधाक्रान्तप्र(*)धनवसुधानिश्चले यत्र जाता
श्योतन्नेत्रोत्पलजलकणाः कौंकणाधीशपत्न्यः ॥३६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org