________________
इतश्च ।
अ. प्रा. जैनलेखसन्दोहे
स्वर्गापगाजलवलक्षितशंखशुभ्रा
बभ्राम यस्य लवणाब्धिमतीत्य कीर्त्तिः ( * ) ॥ २६ ॥
सुतस्तस्मादासीद्दशरथ ककुत्स्थप्रतिकृतेः
प्रतिक्ष्मापालानां कवलितबलो वीरधवलः । यशः पूरे यस्य प्रसरति रतिक्लांत मनसा
मसाध्वीनां भग्नाभिसरणकलायां कुशलता ॥२७॥ चौलुक्यः सुकृती स वीरधवलः क ( * ) जपानां जपं
यः कर्णेऽपि चकार न प्रलयतामुद्दिश्य यौ मंत्रिणौ । आभ्यामभ्युदयातिरेकरुचिरं राज्यं स्वभर्तुः कृतं
वाहानां निवहा बटाः करटिनां बद्धाश्च सौधांगणे ॥२८॥ तेन मंत्रिद्वयेनायं जाने जानूपवर्त्तिना । वि ( * ) भुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियं ॥ २९ ॥
गौरीवरश्वशुरभूधरसंभवोऽय
Jain Education International
मस्त्यर्बुदः ककुदमद्रिकदंबकस्य ।
मंदाकिनीं घनटे दधदुत्तमांगे
यः श्यालकः शशिभृतोऽभिनयं करोति ॥ ३० ॥
क्वचिदिह विहरतीर्वी (*) क्षमाणस्य रामाः प्रसरति रतिरंतर्मोक्षमाकांक्षतोऽपि । क्वचन मुनिभिरर्थ्या पश्यतस्तीर्थवीथीं
भवति भवविरक्ता वीरवीरात्मनोऽपि ॥ ३१ ॥
For Personal & Private Use Only
www.jainelibrary.org