SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अ. प्रा. जैनलेखसन्दोहे धविधाने भुवनच्छिद्रपिधाने विभिन्नसंधाने । सृष्टिकृता नहि सृष्टः प्रतिमल्लो मल्लदेव ( * )स्य ॥ ११ ॥ नीलनीरदकदम्बकमुक्तश्वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गलहस्तो हस्तिमलदशनांशुषु दत्तः ॥ १२॥ तस्यानुजो विजयते विजितेंद्रियस्य सारस्वतामृतकृताद्भुतहर्षवर्षः । श्रीवस्तु ( * ) [पा ]ल इति भालतलस्थितानि दौस्थ्याक्षराणि सुकृती कृतीनां विलुंपन् ॥१३॥ विरचयति वस्तुपालश्चलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा ॥ १४ ॥ तेजःपाल : पालितस्वा (*)मितेज: पुंजः सोऽयं राजते मंत्रिराजः । दुर्वृत्तानां शंकनीयः कनीया ॥ नस्य भ्राता विश्वविभ्रांतकीर्त्तिः ॥ १५ ॥ तेजःपालस्य विष्णोश्च कः स्वरूपं निरूपयेत् । स्थितं जगत्रयीसूत्रं यदीयोदकंदरे || १६ || जाल्हू माऊसाऊ (*) धनदेवी सोहगावयजुकाख्याः । पदमलदेवी चैषां क्रमादिमाः सप्त सोदर्यः ॥ १७ ॥ एतेऽश्व राजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदरवासलोभेन ॥ १८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003986
Book TitleArbud Prachin Jain Lekh Sandohe Abu Part 02
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthamala Ujjain
Publication Year1994
Total Pages762
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy