________________
विमलवसतिलेखाः।
तत्र प्राग्वाटान्वयमुकुटं कुटनप्रसून(*)विशदयशाः । दानविनिर्जितकल्पद्रुमषं खं] डचंडपः समभूत् ॥ ४ ॥ चंडप्रसादसंज्ञः स्वकुलप्रासादहेमदंडोऽस्य ।। प्रसरत्कीर्तिपताकः पुण्यविपाकेन सनुरभूत् ॥ ५ ॥ आत्मगुणैः किरणैरिव सोमो रोमोद्मं सतां कु(*)र्वन् । उदगादगाधमध्यादग्धोदधिबांधवात्तस्मात् ॥६॥ एतस्मादजनि जिनाधिनाथभक्ति
बिभ्राणः स्वमनसि शश्वदश्वराजः । तस्यासीद्दयिततमा कुमारदेवी
देवीव त्रिपुररिपोः कुमारमाता ॥७॥ तयोः प्रथमपु(*)त्रोऽभून्मंत्री लूणिगसंज्ञया । दैवादवाप बालोऽपि सालोक्यं वासवेन सः ॥८॥ पूर्वमेव सचिवः स कोविदै
गण्यते स्म गुणवत्सु लूणिगः । यस्य निस्तुषमतेर्मनीषया
धिकृतेव धिषणस्य धीरपि ॥९॥ श्रीमल्लदेवः श्रि(*)तमल्लिदेव
स्तस्यानुजो मंत्रिमतल्लिकाऽभूत् । बभूव यस्यान्यवनांगनासु
लुब्धा न बुद्धिः शमलब्धबुद्धेः ॥ १० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org