________________
सम्यक्त्वं हि परमज्योतिः
है श्री रमेश मुनि शास्त्री (स्व. उपाध्याय श्री पुष्कर मुनि जी म. के शिष्य)
सम्यक्त्वं भूषणं भव्यं, शिवदं सुखदं क्षमम् । भव्या: प्राप्य यत: रत्नं प्रयान्ति परमं पदम् ॥१॥ भौतिकं वैभवं द्रष्टं, मत्पार्श्वे लोचनद्वयम् । प्रेक्षितुं किन्तु चात्मानं, सम्यक्त्वं हि समर्हति ॥२॥ सुलभं वस्तु सम्पूर्णं, सम्यक्त्वं दुर्लभं मतम् । दुर्लभं सुलभं जातं, किमाश्चर्यं ततः परम् ॥३ ।। सम्यक्त्वं हि परं ज्योतिरन्यज्योति: क्षयान्वितं । अत: प्राप्तुं यते नित्यं, कृत्स्नं यत्नेन लभ्यते ॥४॥ निर्धनोऽपि धनाढ्योऽहं, सम्यक्त्वं यदि विद्यते । द्रव्यद्रव्यं क्षयं चैति, भावद्रव्यं न नश्यति ॥५ ।। साधना-शाखिन: सुष्ठु, सम्यक्त्वं मूलमुच्यते । लब्धं मूलं मया यहि, तर्हि सर्वं स्वत: लभे ॥६॥ सम्यक्त्वं शिवसद्मन: शुभपथ: नित्यं प्रशस्यं प्रियम्, सम्यक्त्वं विपुलं धनं सुखकरं शुद्धेन संसाध्यते । सम्यक्त्वेन नरा: भवन्ति गुणिन: मुक्तिं लभन्ते तथा, सम्यक्त्वाय सुरः सदा सुयतते, भव्येन संभाव्यते ॥७॥ सम्यक्त्वात् पतिता: पतन्ति नितरां वाप्यां जगत्यां ध्रुवम्, सम्यक्त्वस्य यश: यथा कथयितुं नाहं क्षम: मन्दधीः । सम्यक्त्वे सुतरां सुखं हि सततं, नित्यं प्रियं पावनम्, हे सम्यक्त्व ! विना त्वया भवजले, लीन: रमेशो मुनिः ॥८॥
सी-१३, विवेकविहार, दिल्ली
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org