________________
(५२) तात्पर्य-विषयांच्या इच्छेपासून उत्तरोत्तर विषयेच्छा वाढतच जाते. व इच्छा वाढत चालली झणजे समाधानास हृदयांत स्थान मिळत नाही. मनुष्य हावरा बनतो. यासाठी भगवंतांनी इच्छेचा त्याग करण्याचा जो उपदेश केला तोच लोकांचे कल्याण करणारा आहे. व सत्पुरुष भगवन्ताच्या मताचा थाश्रय करून आपले कल्याण करून घेतात.
__ याप्रमाणे अभिनंदन तीर्थकरांची स्तुति संपली ।
सुमतितीर्थकरस्तुतिः ।
उपजाति छन्दः। अन्वर्थसंज्ञः सुमतिर्मुनिस्त्वं
स्वयं मतं येन सुयुक्तिनीतम् । यतश्च शेषेषु मतेषु नास्ति
सर्वकियाकारकतत्त्वसिद्धिः ॥ २१॥ अन्वर्थसंज्ञेत्यादि । अन्वर्था अनुगतार्था संज्ञा नाम यस्यासावन्वर्थसंज्ञो यथार्थनामेत्यर्थः । कासौ संज्ञा अनुगतार्था त्स्येत्याह सुमतिरिति शोभना मतिर्यस्यासौ सुमतिः । कथम्भूतः ? मुनिः प्रत्यक्षवेदी । कथं शोभना मतिरस्य सिद्धा यतोऽम्वर्थसंज्ञत्वं स्यादित्याह स्वयमित्यादि । स्वयमात्मना मतमंगीकृतं तत्त्वं । येन कारणेन । सुयुक्तिनीतं शोभना युक्तिरुपपत्तिः सुयुक्तिः तया आनीतं प्रणीतं तस्यां वा नीतं प्रापितं । अनेकधर्मात्मकं जीवादितत्त्वं विवक्षिताविवक्षितधर्मगुणप्रधानभावेन प्रतिपादित प्रमाणगोचरचारितया वा अवस्थापितमित्यर्थः । न केवलं एतस्मात्कारणात्वं सुमतिः कित्येतस्मादपीत्याह । यतश्च यस्माच्च कारणात् । शेषेषु मतेषु । त्वन्मतादन्येषु मतेषु नास्ति न विद्यते । कासौ इत्याह सर्वेत्यादि । क्रियाश्च कारकाणि च । सर्वाणि च तानि क्रियाकारकाणि च तेषां तत्वं स्व.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org