________________
(१३) श्वस्मिन् त्रैलोक्योदरवर्तिवस्तसंघाते चक्षुः प्रकाशकत्वेन प्रवृत्तं केवलज्ञानं यस्य । किनामास ! वृषभो वृषो धर्मस्तेन भाति शोभते स वा भाति प्रकटीभवति यस्मादसौ वृषभः । कथम्भूतः ? अर्चितः पूजितः । केषां ? सतां विपश्चितामिन्द्रादीनां । ननु सकलकर्मक्षयापूर्वमसौ वि. श्वचक्षुरस्तु तत्प्रक्षये तु जडो भविष्यति बुद्धयादिविशेषगुणानामत्यन्तोच्छेदात् इति यौगाः । चैतन्यमात्ररूपं इति सांख्याः । अत्राह-रूमग्रविद्यात्मवपुर्निरञ्जनः । अञ्जनाज्ज्ञानावरणादिकर्मणो निष्क्रान्तो निरञ्जनः । सकलकर्मविप्रमुक्तः सन्नात्मा समग्रविद्यात्मवपुर्भवति न जडो नापि चैतन्यमात्ररूपः । समग्रा संपूर्णा जीवाद्यशेषवस्तुविषया विद्या बुद्धिरात्मनो वपुः स्वरूपं यस्य सः । इत्थम्भूतो भगवान् किं करोतु ? पुनातु पवित्रीकरोतु सकलदोषविशुध्दं करोत्वित्यर्थः । किं तत् चेत आत्मस्वरूपं । कस्य ! मम स्तुतिकर्तुः। पुनरपि कथम्भूतो कृषभः ? नाभिनन्दनो नाभेश्चतुर्दशकुलकरस्य नन्दनः सुतः । जिनो निखिलबाह्याभ्यन्तरशत्रणां निर्मूलमुन्मूलकः । जितभुल्लकवादिशासनः । क्षुल्लूकानि लघुनि विशिष्टपुरुषप्रणीतत्वाभावात् । तानि च तानि वादिशासनानि च । परस्परविरुद्धसर्वथानित्यक्षणिकादितत्त्वं वदन्ति इति वादिनः कपिलेश्वरसुगतादयस्तेषां मासनानि मतानि । जितानि क्षुल्लकवादिशासनानि येनेति । अजितक्षुल्लकवादिशासन इति च पाठः । न जितं क्षुल्लकवादिभिः शासनं यस्येति तदर्थः । ... मराठी अर्थ-इंद्रादि देवतांकडून ज्याचें पदकमल पूजिलें गेलें आहे असा, त्रैलोक्यांतील सर्व पदार्थास पहाणारा आहे, केवल ज्ञानरूपी डोळा ज्याचा असा जो सर्व कर्म रहित आहे व सर्व तत्वांना जाणणारे शान हेच ज्याचे स्वरूप आहे असा, सांख्य बौद्ध वगैरे क्षुल्लक वायांची तत्वे न्याने सोडून टाकली आहेत असा; बाह्य शर्बुचा व अंतःस्व रागद्वेषादि सचा ज्याने नाश केला आहे असा, नाभिराबाचा पुत्र वृषभनाथ तीर्थकर
मत तदयः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org