SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ( २४८) कराचे पाय कसे होते याचे वर्णन. त्रिदशेंद्रमौलिमणिरत्न करणाविसरोपचुम्बितम् । पादयुगलममलं भवतो विकसत्कुशेशयदलारुणोदरम् ॥१२३॥ नखचंद्रश्मिकवचाति ___ रुचिरशिखरांगुलिस्थलम् । स्वार्थनियतमनसः सुधियः प्रणमंति मंत्रमुखरा महर्षयः ॥ १२४ ॥ त्रिदशेयदि ! त्रिदशा देवास्तेषः मिन्द्राः स्वामिनः तेषां मौलयः मुकुटानि तेषु मणिरत्नानि मणयः पारागादयस्त एव रत्नानि वजा. दीनि वा तेषां किरणाः तेषां विसरः प्रसरः तैरुपचुंबितं । किं तत् ? पादयुगलं । कथम्भूतं ? अमलं न विद्यते मलं पापं यस्य, यदर्शनेन भव्यानां वा कस्य संबंधि तत् ? भवतः अरिष्टनेमितीर्थकरदेवस्य । पुनरपि कथम्भूतमित्याह विकसदित्यादि । विकासश्च तत्कुशेशयंच पन तस्य दलं पत्रं तद्वदरुणं रक्तं उदरं पादतलं यस्य तद्विक सत्कुशे. शयदलारुणोदरम् । पुनरपि कविशिष्टं पादयुगल मित्य ह नखेत्यादि । नखा एव चन्द्रास्तेषां रश्मयस्तेषां कवचः परित्रेवः तेनातिरुचिरं शिखरभग्रभागो यस्य ततथाविव अंगुलीनां स्थलं उन्न प्रदेशो यस्य पादयुगलस्य तत् नखचन्द्ररमिक प्रचातिरुचिरशिखरांगुलिस्थलं तत्कि कुति ? प्रणमन्ति । के ते ? महर्षयः । कथम्भूताः मन्त्रमुखराः मन्त्रेण सप्ताक्षरेण, सामान्यरतु तरूपेग वा मुखरा वाचालाः । पुनरपि कथाभूताः ? सुधिषः शोभना धीर्येषां अत एवं स्वार्थनियतमनसः साथै मोक्षलक्षणे नियतं नियंत्रितं मनो यैः ।। .. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003839
Book TitleSwayambhu Stotra Chaturvinshati Jinstuti
Original Sutra AuthorN/A
AuthorSamantbhadracharya, Prabhachandracharya, Jindas Parshwanath Phadkule
PublisherSakharam Nemchand Doshi
Publication Year
Total Pages314
LanguageMarathi
ClassificationBook_Other
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy