SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ (२४९ ) श्री नेमिनाथस्तुतिः । भगवानृषिः परमयोग दहन हुतकल्मषन्धनः । ज्ञानविपुलकिरणैः सकल प्रतिबुध्य बुद्धकमलायतेक्षणः ॥ १२१ ॥ 1 भगवानित्यादि । भगवान्विशिष्टज्ञानवानिंद्रादीनां पूज्यो वा । भरिष्टमिरिति द्वितीयवृत्त तेनाभिसम्बन्धः । कथंभूतः ? ऋषिः परमर्धिसंपनः । पुनरपि कथंभूत इत्याह परमेत्यादि । परमश्चासौ योगश्च शुध्यानं स एव दहनः कल्मषं ज्ञानावरणादि कर्म तदेवेन्धनं तदहने हुतं कायेन्धनं येनासौ परमयो गदहन हुतकल्मषेन्धनः । किं कृत्वा प्रतिबुध्य प्रकाश्य ज्ञात्वा । किं तत्सकलं लोकालोकजातं । कैः ? ज्ञानविपुल किरणैः ज्ञानमेव विपुला विस्तीर्णी निरवशेषद्योतनसमर्थः -किरणा रश्मयः तैः । पुनरपि कथम्भूतो बुद्धकमलायतेक्षणः बुद्ध • विकसितं तच तत्कमलं च (कमलशब्देनात्र तत्पत्रमुच्यते) तद्वदायते दीर्घे ईक्षणे लोचने यस्य सः । 1 एतद्विशेषणविशिष्टो भगवान् पुनः कथम्भूतः संजात इत्याह हरिवंशकेतुरनवद्याविनयदमतीर्थनायकः । शीलजलधिरभवो विभव Jain Educationa International स्त्वमरिष्टनोमिजिनकुंजरो ऽजरः ॥१२२॥ हरीत्यादि । अभव आसीभूतवान् । कथम्भूतो विभवो विगतसंसारो मुक्त इत्यर्थः । किंनामा त्वमित्याह अरिष्टनेमीत्यादि । अरिष्टनेमिः अरिष्टनेमिनामा, अरिष्टानां कर्मणां नेमिश्चक्रधारा स चासो जिन For Personal and Private Use Only www.jainelibrary.org
SR No.003839
Book TitleSwayambhu Stotra Chaturvinshati Jinstuti
Original Sutra AuthorN/A
AuthorSamantbhadracharya, Prabhachandracharya, Jindas Parshwanath Phadkule
PublisherSakharam Nemchand Doshi
Publication Year
Total Pages314
LanguageMarathi
ClassificationBook_Other
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy