________________
( १९१ )
अथ कुंथुनाथ स्तुतिः ।
कुन्थुप्रभृत्यखिलसत्वदयैकतानः, कुन्थुर्जिनो ज्वरजरामरणोपशान्त्यै । त्वं धमर्चमिह वर्तयसि स्म भूत्यै, भूत्वा पुरा क्षितिपतीश्वरचक्रपाणिः ॥८१॥
कुंथुप्रभृतीत्यादिः । कुन्थुः सूक्ष्मप्राणी स प्रभृतिः आदिर्येषां अखिलसत्वानां ते तथोक्ताः तेषु दया करुणा एकः प्रधानभूतः तानोऽनंती तस्याः विस्तार आमुक्तेर्यस्य स तथोक्तः । कोसौ ? कुन्धुर्नाम जिनः त्वं । किं कृतवान् वर्तयस्मि प्रवर्तितवान् । किंसत् ? धर्मच धर्मसंघातं क? इह लोके । किमर्थं भूत्यै मोक्षलक्ष्म्यै । कथम्भूतायै ! ज्वरजरामरणोपशान्त्यै ज्वर इत्युपलक्षणं सकलव्याधीनां ज्वरश्च जराच मरणच तेषामुपशांतिर्विनाशो यस्यां तस्यै। किं कृत्वा भूत्वा क्षितिपतीश्वरचक्रपाणिः चक्रं पाणौ यस्यासौ चक्रपाणिः, क्षितिपतीनां ईश्वरः स चासौ चक्रपाणिचक्रवर्ती भूत्वेत्यर्थः । कदा ? पुरा पूर्व । किमर्थं तथाविधो भूतोऽयं ! मुस्त्यै राज्यविभूतिनिमित्तं । भूत्यै इत्येतत्सदेशकन्यायेन पूर्वत्र इह चाभिसम्बध्यते ।
"
मराठी अर्थ - कुंथु वगैरे सर्व प्राण्यावर पूर्ण दया करणारे कुंथुनाथ तीर्थकर जेव्हां गृहस्थावस्थेत होते, त्यावेळीं राज्यप्राप्तिसाठी संपूर्ण पृथ्वीचे शासन करणारे चक्रवर्ती झाले. चरत्नाच्या प्रभावाने संपूर्ण भरनक्षेत्र त्यांनी जिंकले व चक्रर्तित्व प्राप्त करून घेतलें. तदनंतर त्यांनी गृहस्थावस्थेचा त्याग केला व सर्व व्याधि, वृद्धावस्था व मृत्यु यांचा विनाश करणा-या मोक्षलक्ष्मीच्या प्राप्तिस्तव धर्मचक्र आपल्या हाती घेतलें.
तात्पर्य - कुन्थुनाथ हे चक्रवतीं होते व तीर्थकरही होते. -
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org