SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ( १९२ ) यदि राज्यविभूतिसंपन्नो भगवास्तईि किमर्थ सा परित्यक्तेत्यत्राह कुंथुनाथ जिनांनी राज्य का सोडले हे आचार्य सांगतात. तृष्णार्चिषः परिदहन्ति न शान्तिरासा मिष्टेन्द्रियार्थविभवैः परिवृद्धिरेव । स्थित्यैव कायपरितापहरं निमित्त मित्यात्मवान्विषयसौख्यपराङ्मुखोभूत् ॥८२॥ तृष्णेत्यादि-अभूद्भवान् । कथंभूतः ? विषयसौख्यपरानखः । विषयाणां स्नग्वनितादीनां कार्यभूतं सौख्यं विषयसौख्यं तस्मिन् पराङ्मुखो निवृत्तेच्छः। किंविशिष्टः सन् ! आत्मवान्वश्येन्द्रियः । कुतस्तथाभूतः सँस्तत्पराङ्मुखोभूदित्याह तृष्णेत्यादि । तृष्णा विषयाकांक्षास्ता एवाचि. पोग्निज्वाला: परि समन्ताद्दहन्ति । ननु मानुषमात्रं ताः परितापयन्ति तस्य अभिलषितविषयाप्राप्तेः नतु चक्रवर्तिनं विपर्ययादित्यत्राह-नेत्यादि न-शान्तिरुपशम आसां तृष्णार्चिषां । कैः ? इष्टेन्द्रियार्थविभवैः इष्टा . मनोज्ञास्ते च ते इन्द्रियार्थाः स्वस्त्र विषयाः तेषां विभवाः संपत्तयस्तैः । कुतस्तैः तासां न शान्तिः? यस्मात्परिवृद्धिरेव परि समन्ताद् वृद्धिरेव उत्कर्ष एव यतस्तैस्तासां ' लाभालोभः प्रवर्तते' इत्यभिधानात् ।। .. त्रिमासा चिन्तितं कार्य त्रिकोट्या नैव पूर्यते । उक्तंच यथा लाभस्तथा लोभो लाभाल्लोमः प्रवर्धते ॥ . - कथम्भूताः परितापयन्ति ? स्थित्यैव स्वभावेनैव । पदिवा स्थियैव क्रियान्तरोपरमेणैव सन्ततभित्यर्थः । किं पुनः किंचिदपि तद्विभवैन कियते इत्यत्राह-कायेत्यादि । एते इष्टेन्द्रियार्थविभवाः कायस्य शरीरस्य परि समन्ताद्यस्तापः सन्तापः तं हरन्तीति कायपरितापहरं निमित्त कारणं भवंति न पुनस्तृष्णार्चिषां उपशान्तिकरा भवन्ति इत्यर्थः । इति एवं ज्ञात्वा आत्मवान्विषयसौख्यपराङ्मुखोभूत् ॥ मराठी अर्थः- श्री कुंथुजिनेश्वरांनी पुष्कळवर्षे चक्रवर्तिसु Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003839
Book TitleSwayambhu Stotra Chaturvinshati Jinstuti
Original Sutra AuthorN/A
AuthorSamantbhadracharya, Prabhachandracharya, Jindas Parshwanath Phadkule
PublisherSakharam Nemchand Doshi
Publication Year
Total Pages314
LanguageMarathi
ClassificationBook_Other
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy