________________
( १७२ ) ... . . . . अथ अनन्तनाथस्तुतिः । अनन्तदोषाशयविग्रहो ग्रहो . . विषंगवान्मोहमयश्चिरं हृदि । यतो जितस्तत्त्वरुचौ प्रसीदता,
- त्वया ततोभूभगवाननन्तजित् ॥६६॥
अनन्तेत्यादि । जितो निर्मूलितस्त्वया । कोसौ ? ग्रहः पिशाचविशेषः । वि.विशिष्ट इत्याह-अनन्तेत्यादि । अनन्ताश्च ते दोषाश्च रागादयः तेषामाशयः, आशेते निवसति रागादिदोषो यस्मिन्नित्याशयः तदा. धारभूतं चित्तं, स एव विग्रहः शरीरं यस्य स तथोक्तः । पुनरपि कथम्भूतः विषङ्गवान्ममेदं सर्व ख्यादिकं इति सम्बन्धो विषङ्गः । सोऽस्यास्तीति तहान् । यदिवा विषङ्गवान्सम्बन्धवान् । क ? हृदि । कथं चिरं बहुतरकालं भवति । पुनरपिकथंभूतः ? मोहमयः मोहेन निवृत्तो मोहमयः । मोहरूप इत्यर्थः । क जितः ? हृदि चिदात्मन्यात्मस्वरूपे । किं कुर्वता ? तत्वरुचौ प्रसीदता तत्वानि जीवादी नि, सेषु रुचिः श्रद्धानं तस्यां प्रसीदता प्रसन्लेन भवता । विपरीताभिनिवेशमलं विशोध्यतेत्यर्थः । यतो यस्मात्कारणादित्थम्भूतो ग्रहस्त्वया जितस्ततस्तस्मात्कारणादभूत्संजातो भगवाननन्तजिन्नाम्ना ॥
मराठी अर्थः-संसाराला वाढविणाऱ्या रागद्वेषांचे उस्पत्तिस्थान असें में चित्त, हेच ज्याचे शरीर आहे असे व घर, द्रव्य, मुलगा स्त्री वगैरे मध्ये ममत्व बुद्धि- भ्रान्ति उत्पन्न करणारे, मोहमय असें पिशाच जीवादि सात तत्वावर श्रद्धान ठेवणाऱ्या आपणाकडून जिंकले गेले. ज्ञानस्वरूपांत निमग्न झा लेल्या आपल्या आत्म्यातून आपण त्याला काढून टाकलें-हुसकून दिले. यास्तव हे जिनेश, आपले 'अनंतजित्' हे नांव सार्थक आहे.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org