________________
(१२२) अथ श्रीशीतलनाथ स्तुतिः ।।
* ( वंशस्य इन्द) न शीतलाश्चन्दनचन्द्ररश्मयो,
न गांगमम्भो न च हारयष्टयः। यथा मुनेस्तेऽनघवाक्यरश्मयः,
शमाम्बुगर्भाः शिशिरा विपश्चिताम् ॥४६॥ न शीतला इत्यादि । न शीतला न संसारतापदुःखापहारकाः । के ते इत्याह चन्दनेत्यादि । चन्दनं च चन्द्ररश्म्यश्च । न गांगमम्भः शीतलं गंगाया इदं गांगमम्भः पानीयं । न च नैव हारयष्टयः मुक्ताफलमालाः शीतलाः । अत्र वैधर्योदाहरणमाह-यथेत्यादि । यथा येन संसारसन्तापदुःखापनोदप्रकारेण । शिशिराः शीतलाः प्रल्हादकराः । केषां ? विपश्चितां हेयोपादेयतत्वविदाम्। के ? अनघवाक्यरश्मयः वाक्या. न्येव रश्मयो यथावदर्थस्वरूपप्रकाशकत्वात् । अनघा अनवद्याश्च ते वाक्यरश्मयश्च । कस्य ? मुनेः प्रत्यक्षविदः ते तव । यदि वा ते इति सम्बोधनं, तस्य अनघ इति विशेषणं । हे मुने शीतल भगवन् । शम उपशमो रागद्वेषयोरमावः स एवाम्बु जलं तद्गर्भे येषां ते तथोक्ताः । .. मराठी अर्थ:-हे शीतलनाथ जिनेश! रागद्वेषांच्या अभावरूपी पाण्याने ओथंबलेल्या व संसार सन्तापास दूर पळविणाऱ्या हितोपदेशरूपी वचनकिरणांनी सर्व विद्वज्जनांचे अन्तःकरण जसे शान्त होते, तसें चन्दनाच्या लेपाने, चन्द्रकिरणांच्या सेवनाने, गंगेच्या शीतल पाण्याने अथवा मोत्यांच्या हारांनी देखील त्याचे अन्तःकरण शान्त होत नाही..
तात्पर्य-शीतलनाथ जिनेश्वरांनी केलेल्या उपदेशाच्या श्राणाने विद्वान् लोकांनी आपला संसारताप नाहीसा केला..
ॐ अस्य लक्षणं यथा 'जतौ तु वंशस्थमुदीरितं जरौ' इति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org