SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ( ११५) अनेकमेकं च पदस्य वाच्यं, वृक्षा इति प्रत्ययवत्प्रकृत्या । आकांक्षिणः स्यादिति वै निपातो, गुणानपेक्षेऽनियमेऽपवादः ॥ ४४ ॥ - अनेकमित्यादि । पदवाक्यात्मको ह्यागमः, पदात्मकं च वाक्यं । तत्र पदमेव तावञ्चिन्त्यते । पदस्य वाच्यमभिधेयमनेकमनेकपर्यायात्मकं वस्तु, एकच विवक्षितकसामान्यात्मकं च । सामान्यविशेषात्मक वस्तु वाध्यमियर्थः । यद्यनेकमेव तदभिधेयं स्यात्तदा तत्र संकेतासम्भवादनभिधेयमेव तस्स्यात् । यत्र हि संकेतः कृतस्तदन्यत् , यत्र च शन्दे व्यवहारः क्रियते तदन्यत् । न चासंकेतितमभिधातुं शक्यमतिप्रसंगात् । यदि पुनरेकमेव सामान्यमभिधेयं स्यात्तदा एकस्मिन्विशेषे प्रवृत्तिन स्यात् । कथं पुनरेकमनेकं च पदस्य वाच्यमित्यत्राह-प्रकृत्येति स्वमावेनेति । दृष्टांतमाह-वृक्षा इति प्रत्ययवदिति । एते वृक्षा इति योयं प्रत्ययस्तस्येव तद्वत् । अत्र हि प्रत्यये वृक्षत्वसामान्यं धवदिरादयश्च विशेषाः प्रतिभान्तीति सामान्यविशेषविषयत्वं यथा तथा पदेऽपीति । यदि व पदस्येति कोर्थः ? प्रत्ययवत्प्रकृत्याः प्रत्ययवती प्रकृतिः पदं इत्यभिधानात् । एतदेव व्यक्तिनिष्ठतया दर्शयति वृक्षा इति । ननु यद्यने कमेकं च पदस्प वाघ्यं स्याराहस्तीत्युक्ते नास्तित्वस्यापि प्रतिपत्तिप्रसंगात् पदान्तरप्रयोगोऽनर्थकः स्यात् । यदि वा स्वरूपेणेव पररूपेणापि अस्तिस्वं स्यात् । नास्तीत्युक्त चास्तित्वस्यापि प्रतिपत्तिः स्यापरखपेणेव स्वरूपेण च नास्तित्वं स्यात् ? इत्याशंक्याह-आकांक्षिण इत्यादि । अस्तित्वादौ प्रतिपादितेऽपि नास्तित्वादौ या आकांक्षा सा निःयते यस्य पुरुषस्य तस्य आकोक्षिणः । स्यादिति योयं निपातः सोपवादो बाधको, वै स्फुटं । कापवादो भवति ? अनियमे यथा स्वरू. पेण तथा पररूपेणाप्यस्तित्वं, यथा वा पररूपेण तथा स्वरूपेणापि ना Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003839
Book TitleSwayambhu Stotra Chaturvinshati Jinstuti
Original Sutra AuthorN/A
AuthorSamantbhadracharya, Prabhachandracharya, Jindas Parshwanath Phadkule
PublisherSakharam Nemchand Doshi
Publication Year
Total Pages314
LanguageMarathi
ClassificationBook_Other
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy