________________
(९३) चन्द्रप्रभार्थकरांची स्तुति.
[उपजाति छंद] चन्द्रप्रभ चन्द्रमरीचिगौरं,
चन्द्र द्वितीयं जगतीव कांतम् । वंदेऽभिवन्धं महतामृषीन्द्र,
- जिनं जितस्वान्तकषायबन्धम् ॥ ३६ ॥ चन्द्रप्रममित्यादि । चन्द्रस्येव प्रभा यस्यासौ चन्द्रप्रभोष्टमस्तीर्थकर; तस्येयं संज्ञा । अन्वर्था चेयं संज्ञा । एतदेव चन्द्रेत्यादिना दर्शयति । चन्द्रस्य मरीचयः किरणास्तद्वद्गौरं शुक्लं तथाभूतं भगवन्तं । जगति द्वितीयमिव चन्द्रं । कथम्भूतं ? कान्तं सकलार्थोद्योतिकेवलज्ञान, प्रभाभाराधारतया चन्द्रादतिशयेन कान्तं कमनीयं दीलं । तमित्थम्भूतं चन्द्रप्रभ भगवन्तं वन्दे । पुनरपि कथम्भूतं ? अभिवन्धं अभि समन्ताद्वन्द्यं पूज्य, महतां महद्भिरिन्द्रादिमिरित्यर्थः । ऋषीन्द्रं ऋषीणां गणधरदेवादीनां इन्द्रं स्वामिनं । जिनं अशेषकर्मोन्मूलकं । जितेत्यादि । अत्र, विधा पाठः केचित्तावाज्जितस्वान्तकषायबन्धं, इति पठन्ति । अस्यायमर्थः । स्व इत्यनेन चन्द्रप्रभस्वामी गृह्यते । तस्यांतो धी न प्रकृत्यादेः । स चासौ कषायबन्धश्च ! स जितो येन तथोक्तस्तं । केचित्तु जितास्वन्तकषायबन्धमिति पठन्ति । अस्यायमर्थः । सुखेनान्तो विनाशः स्वन्तो, न विद्यते स्वन्तो यस्य कषायबन स्यासौ अस्वन्तः । जितोऽस्वन्तः कषायबन्धो येनासौ तथोक्तस्तं । भध्ये तु जितस्वान्तकषायबन्धमिति पठन्ति । अस्यायमर्थः । स्वान्तं मनः प्रकृतिविकाररूपं तस्य कषायैः क्रोधादिभिबन्धो नात्मन इति सांख्यमतं । तदत्र निषिध्यते न स्वान्तकषायबन्धः । आत्मनस्तद्वन्ध इत्यर्थः । जितः स्वान्तकषायबन्धो येन स तथोक्तमिति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org