________________
(७५) कथमसौ तदोयो हितोपदेशः प्रमाणं यथावत्पदार्थपरिज्ञानासम्भवात्
वाग्व्यापारासम्भवाद्वा इत्याशंक्याह । पदार्थांचे खरे ज्ञान नसल्यामुळे किंवा ज्ञानप्राप्ति झाल्यावरोबर मोक्षप्राप्ति झाल्यामुळे ते हितोपदेश करण्यास समर्थ कसे होणार ? व त्यांचा तो उपदेश प्रमाण कसा मानला
जाईल ? या शंकेचे उत्तर आचार्य देतात. बभार पद्मा च सरस्वती च,
भवान् पुरस्तात्प्रतिमुक्तिलक्ष्म्याः । सरस्वतीमेव समग्रशोभां,
सर्वज्ञलक्ष्मी ज्वलितां विमुक्तः ॥ २८ ॥ . बमारेत्यादि । यो भवान्बभार धृतवान्। पद्मा चानंतज्ञानादिः, लक्ष्मी न केवलं तां च सरस्वतीच विशिष्टां वाणी । अतः कथं तदीयोपदेशस्याप्रामाण्यं ? कदा तां बभारेत्याह पुरस्तादित्यादि । पुरस्तात्पूर्व । कस्याः । प्रतिसुक्तिलक्ष्म्याः मुक्तिं लक्षणीकृत्य प्रतिमुक्तिः लक्ष्मीस्तस्याः पूर्व । अर्हदावस्थायां बभार, न सिद्धावस्थायां इत्यर्थः । ननु पद्मां सरस्वती च बभारेत्ययुक्तमुक्तं, वेदनीयसद्भावतो बुभुक्षादेरपि तेन भगवता धृतत्वादित्यत्राह- सरस्वतीमेवेति । एचकारेण बुभुक्षादे - निरासः । पद्मायाः कुतो न निषेध इति चेदुक्तत्वात् । उक्तस्य हि एव कारेण न निषेधः । यथा द्वौ पुत्रौ जनयामास नरनारायणमेव चेति , किंविशिष्टां तां ! समग्रशोभा । समना परिपूर्णा शोभा यथावन्निखि लार्थप्रतिपादनलक्षणा विभूतिः, समवसरणादिविभूतिर्वा । यदि प्रति. मुक्तिलक्ष्म्याः पुरस्तात्पद्म च सरस्वती च बभार तदा विमुक्तः सन्नसौ का बभारेत्याह-सर्वज्ञलक्ष्मी ज्वलितां विमुक्तः । सर्वज्ञलक्ष्मी अनंतज्ञानादिविभूति ज्वलितां निर्मलां बभारे ति सम्बन्धः । विशेषेण मुक्तः सकलकर्मरहितः सन् । सर्वज्ञलक्ष्मीज्वलितामिति च क्वचित्पाठः । तत्र
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org