________________
एवं द्रव्यपर्यायात्मकत्वं जीवादितत्त्वस्य प्रदर्येदानी भावाभावात्मकत्व
___ प्रदर्शयितुमाह.. याप्रमाणे जोवादिपदार्थ द्रव्य व पर्याय स्वरूप आहेत हे घरच्या श्लोकांत स्पष्टपणे दाखविले. आतां जीवादि पदार्थ भावाभावस्वरूप कसे आहेत हे आचार्य
सिद्ध करतात. सतः कथंचित्तदसत्त्वशक्तिः
खे नास्ति पुष्पं तरुषु प्रसिद्धम् । सर्वस्वभावच्युतमप्रमाणं
स्ववाग्विरुद्धं तव दृष्टितोऽन्यत् ॥ २३ ॥ सतःकथञ्चिदित्यादि । सतो विद्यमानस्य आत्मादितत्त्वस्य स्वरूपादिचतुष्टयेन । कथञ्चित्पररूपादिचतुष्टयप्रकारेण तस्य असत्वशक्तिः तथा प्रतीतेः । अत्र निदर्शनमाह । खे नास्तीत्यादि । खे आकाशे । नास्ति पुष्पं । तरुषु पुनः प्रसिद्धं प्रमाणविषयतां गतम् । यदि सत्त्वमेव हि वस्तुनः स्वरूपं स्यात्तदा स्वरूपादिनेव पररूपादिनापि तस्य सत्त्वं स्यात् । तथा च तरुवत्खेपि पुष्पस्य सत्त्वं स्यात् । न चैतद्यक्तं प्रतीतिविरोधात् । अतः सत्व द्वैतवादिनो मतमयुक्तमेव ।
यदि पुनरसत्त्वमेव बस्तुनः स्वरूपं इष्यते तदा पररूपादिचतुष्टयेनेव स्वरूपादिचतुष्टयेनापि स्यादसत्त्वं । तथाच खे इव तरुष्वपि पुष्पासत्त्वं स्यात् । न चैवमस्ति, प्रतीतिविरोधात् । अतः शून्यकांतवादिमतमप्यमुपपन्नम् । एतदेवाह सर्वेत्यादि । सर्वे च ते स्वभावाश्च अस्तित्वनास्तित्वादिसकलरूपाणि । तेभ्यश्च्युतं अपगतं तानि वा च्युतानि यस्मात्तदेवंविधं । सत्वाद्वैतरूपं, सकलशून्यतारूपं वा तत्त्वं । अप्रमाणं न विद्यते व्यवस्थापकं प्रमाणं यस्य । कुतस्तस्य व्यवस्थापकं तन्नास्तीतिचेदत्राह
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org