SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ परीक्षामुखसूत्रपाठः पृ. ५४ विसंवादात् । ६४२ ५५ प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् । ५६ लोकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्ध्यादेश्वासिद्धरतद्विषयत्वात् । ६४३ ५७ सौगतसांख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमा नार्थापत्त्यभावैरेकैकाधिकैर्व्याप्तिवत् । ५८ अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् । ५९ तर्कस्येव व्याप्तिगोचरखे प्रमाणान्तरत्वम् अप्रमाणस्याव्यवस्थापकलात् ।, ६० प्रतिभासभेदस्य च भेदकलात् । ६१ विषयाभासः सामान्य विशेषो द्वयं वा खतन्त्रम् । ६२ तथाऽप्रतिभासनात्कार्याकरणाच्च । ६३ समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षवात् । ६४ परपेक्षणे परिणामिलमन्यथा तदभावात् । ६५ स्वयमसमर्थस्य अकारकत्वात्पूर्ववत् । ६६ फलाभासं प्रमाणादभिन्न भिन्नमेव वा । ६७ अभेदे तद्व्यवहारानुपपत्तेः । ६८ व्यावृत्त्याऽपि न तत्कल्पना फलान्तराध्यावृत्त्याऽफलवप्रसन्नात् । ६९ प्रमाणाधावृत्त्येवाप्रमाणवस्य । ७० तस्माद्वास्तवो भेदः। ७१ मेदे खात्मान्तरवत्तदनुपपत्तेः । ७२ समवायेऽतिप्रसङ्गः। ७३ प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहृतदोषी वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च । ७४ संभवदन्यद्विचारणीयम् । परीक्षामुखमादर्श हेयोपादेयतत्त्वयोः। संविदे मादृशो बालः परीक्षादक्षवद्यधाम् ॥१॥ इति परीक्षामुखसूत्रं समाप्तम् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy