________________
७०२
प्रमेयकमलमार्तण्डे
१८ प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितखादधर्मवत् । १९ शुचि नरशिरःकपालं प्राण्यङ्गलाच्छङ्खशुक्तिवत् । २० माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भवात्प्रसिद्धवन्ध्यावत् । २१ हेवाभासा असिद्धविरुद्धानकान्तिकाकिञ्चित्कराः। २२ असत्सत्तानिश्चयोऽसिद्धः । २३ अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषखात् । २४ खरूपेणासत्त्वात् । २५ अविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्र धूमात् । २६ तस्य बाष्पादिभावेन भूतसङ्घाते सन्देहात् । २७ सांख्यं प्रति परिणामी शब्दः कृतकलात् । २८ तेनाज्ञातवात् । २९ विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकत्वात् । ३० विपक्षेऽप्यविरुद्धवृत्तिरनै कान्तिकः । ३१ निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वात् घटवत् । ३२ आकाशे नित्येऽप्यस्य निश्चयात् । ३३ शङ्कितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृत्वात् । ३४ सर्वज्ञखेन वक्तृत्वाविरोधात् । ३५ सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिश्चित्करः। ३६ सिद्धः श्रावणः शब्दः शब्दलात् । ३७ किञ्चिदकरणात् । ३८ यथाऽनुष्णोऽग्निद्रव्यलादित्यादौ किञ्चित्कर्तुमशक्यत्वात् । ३९ लक्षण एवासौ दोषो व्युत्पन्नप्रयोगस्य पक्षदोषेणैव दुष्टत्वात् । ४० दृष्टान्ताभासा अन्वयेऽसिद्धसाध्यसाधनोभयाः । ४१ अपौरुषेयः शब्दोऽमूर्तखादिन्द्रियसुखपरमाणुघटवत् । ४२ विपरीतान्वयश्च यदपौरुषेयं तदमूर्तम् । ४३ विद्युदादिनाऽतिप्रसङ्गात् । ४४ व्यतिरेकेऽसिद्धतद्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत् । ४५ विपरीतव्यतिरेकश्च यन्नामूर्त तन्नापौरुषेयम् । ४६ बालप्रयोगाभासः पञ्चावयवेषु कियद्धीनता। ४७ अग्निमानयं देशो धूमवत्त्वात् यदित्थं तदित्थं यथा महानस इति । ४८ धूमवांश्चायमिति वा। ४९ तस्मादमिमान् धूमवांश्चायमिति । ५० स्पष्टतया प्रकृतप्रतिपत्तरयोगात् । ५१ रागद्वेषमोहाक्रान्तपुरुषवचनाजातमागमाभासम् । ५२ यथा नद्यास्वीरे मोदकराशयः सन्ति धावध्वं माणवकाः। ५३ अडल्यग्रे हस्तियूथशतमास्त इति च ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org