________________
सू० ६७३] . जय-पराजयव्यवस्था
६५७ साध्यसाधनभावासम्भवात्सह्यविन्ध्यवत्' इत्यहेतुसमत्वेन प्रत्यवस्थानमयुक्तम् ; हेतोः प्रत्यक्षतो धूमादेर्वन्ह्यादौ प्रसिद्धेरिति ।
"अर्थापत्तितः प्रतिपक्षसिद्धरापतिसमा जातिः।”[न्यायसू० ५।०२१] यथात्रैव साधने प्रयुक्त परः प्राह-'यदि प्रयत्नानन्तरीयकत्वेनानित्यः शब्दो घटवत्तदार्थापत्तितो नित्याकाशसाधा-५ नित्योस्तु । यथैव ह्यस्पर्शवत्त्वं खे नित्ये दृष्टं तथा शब्देपि' इति । . अस्याश्च दूषणाभासत्वम् ; सुखादिनानैकान्तिकत्वात् । नचानैकान्तिकाद्धेतोः प्रतिपक्षसिद्धिरिति । _ "एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सत्त्वोपपत्तितो. ऽविशेषसमा जातिः।" [ न्यायसू० ५।११२३] यथात्रैव साधने १० प्रयुक्ते परः प्रत्यवतिष्ठते-प्रयत्नानन्तरीयकत्वलक्षणैकधर्मोपपत्तेघंटशब्दयोरनित्यत्वाविशेषे सत्वधर्मस्याप्यखिलार्थेषूपपत्तेरनित्यत्वाविशेषः स्यात् ।
तस्याश्च दूषणाभासता; तथा साधयितुमशक्यत्वात् । न खलु यथा प्रयत्नानन्तरीयकत्वं साधनधर्मः साध्यमनित्यत्वं शब्दे १५ साधयति तथा सर्वार्थे सत्त्वम्, धर्मान्तरस्यापि नित्यत्वस्याकाशादी सत्त्वे सत्युपलम्भात्, प्रयत्नानन्तरीयकत्वे च सत्यऽनित्यत्वस्यैवोपलम्भादिति।
"उभयकारणोपपत्तेरुपपत्तिसमा जातिः।" [ न्यायसू० ५।१॥ २५] यथात्रैव साधने प्रयुक्ते परः प्राह-'यद्यनित्यत्वे कारणं २० प्रयत्नानन्तरीयकत्वं शब्दस्यास्तीत्यनित्योसौ तदा नित्यत्वेप्यस्य कारणमस्पर्शवत्त्वमस्तीति नित्योप्यस्तु' इत्युभयस्य नित्यत्वस्यानित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानमुपपत्तिसमो दूषणा. भासः । एवं ब्रुवता खयमेवानित्यत्वकारणं प्रयत्नानन्तरीयकत्वं तावदभ्युपगतम् । एवं तदभ्युपगमाच्चानुपपन्नस्तत्प्रतिषेध इति । २५ - "निर्दिष्टंकारणाभावेप्युपलम्भादुपलब्धिसमा जातिः।" [न्यायसू० ५।१।२७] यथात्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते-'शाखा. दिभङ्गजे शब्दे प्रयत्नानन्तरीयकत्वाभावेप्यनित्यत्वमस्ति' इति ।
दूषणाभासत्वं चास्याः; प्रकृतसाधनाप्रतिबन्धित्वात् । न खलु ३० 'साधनमन्तरेण साध्यं न भवति इति' नियमोस्ति, साधनस्यैव
१ अर्थापत्त्या प्रत्यवस्थानम् । २ घटसाधम्र्येण । ३ अनित्येन । ४ अस्पर्शवत्वादिति । ५ परेणाझीक्रियमाणे । ६ यथा सर्वार्थेषु साधनधर्मः सत्त्वमनित्यत्वं न साधयति तथा प्रयत्नानन्तरीयकत्वसाधनधर्मोऽनित्यत्वं न साधयतीत्युक्ते सत्याह। ७ निर्दिष्टस्य साध्यधर्मसिद्धिकारणस्याभावेपि साध्यधर्मोपलग्ध्या प्रत्यवस्थानम्। ८ साध्यस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org