________________
६५८
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० साध्याभावेऽभावनियमव्यवस्थितेः । न चानित्यत्वे प्रयत्नानन्तरीयकत्वमेव गमकम् ; उत्पत्तिमत्त्वादेरपि तद्गमकत्वात् ।
"तंदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमा जातिः।" [न्यायसू०५।१।२९] 'यथा अविद्यमानः शब्द ५ उच्चारणात्पूर्वमनुपलब्धेरुत्पत्तेः पूर्व घटादिवत् । न खलूच्चारणात्प्राग्विद्यमानस्य शब्दस्यानुपलब्धिः तदावरणानुपलब्धेः, उत्पत्त: प्राग्घटादेरिव । यस्य तु दर्शनात् प्राग्विद्यमानस्यानुपलब्धिस्तस्य नावरणानुपलब्धिः, यथा भूम्याद्यावृतस्योदकादेः, आवरणानुप
लब्धिश्च श्रवणात्प्राक् शब्दस्य ।' इत्युक्ते परः प्राह-तस्य शब्द१० स्यानुपलब्धेरेप्यनुपलम्भादभावसिद्धौ सत्यां शब्दस्याभावविपरीतत्वेन भावस्योपपत्तेरनुपलब्धिसमा जातिः।
अस्याश्च दूषणाभासत्वम् ; अनुपलब्धेरनुपलब्धिस्वभावतयोपलब्धिविषयत्वात् । यथैव ह्युपलब्धिरुपलब्धेविषयस्तथानुप
लब्धिरपि । कथमन्यथा 'अस्ति मे घटोपलब्धिः तदनुपलब्धिस्तु १५ नास्ति' इति संवेदनमुपपद्यते?
"साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमा जातिः।" [न्यायसू०५।१॥३३] यथा 'अनित्यः शब्दः कृतकत्वाद् घटवत्' इत्युक्ते परः प्रत्यवतिष्ठते-यदि शब्दस्य घटेन साधये कृतकत्वादिनाऽनित्यत्वं साधयेत्, तदा सर्व वस्त्वनित्यं प्रस२० ज्येत घटादिनाऽनित्येनं सत्त्वेन कृत्वा साधर्म्यमात्रस्य सर्वत्रा:विशेषात्।
तस्याश्च दूषणाभासत्वम्, प्रतिषेधकस्याप्यसिद्धिप्रसङ्गात् । पक्षो हि प्रतिषेध्यःप्रतिषेधकस्तुप्रतिपक्षः। तयोश्च साधर्म्य प्रति
ज्ञादियोगः तेन विना तयोरसम्भवात् । ततः प्रतिज्ञादियोगाद्यथा २५पक्षस्यासिद्धिस्तथा प्रतिपक्षस्यापि । अथ सत्यपि सोधर्ये पक्षप्रतिपक्षयोः पक्षस्यैवासिद्धिर्न प्रतिपक्षस्य; तर्हि घटेन साध्या त्कृतकत्वाच्छब्दस्याऽनित्यतास्तु, सकलार्थानां त्वनित्यना तेन साधर्म्यमात्रात् मा भूदिति ।
१ तस्य शब्दस्य । २ सन्दिग्धानकान्तिकत्वपरिहारमाह। ३ ब्यतिरेकनिदर्शनमाह । ४ जातिवादी। ५ अनुपलब्धेरप्यमावसिद्धिः कथमित्युक्ते सत्याह । ६ द्वितीयातुमानमाश्रित्य जाति वदति । ७ कुतः। ८ अनुपलब्धेरुपलब्धिविषयत्वं यदि न स्यात् । ९ एकस्यानित्यत्वे सर्वस्यानित्यत्वापादनमनित्यसमा जातिः। १० धर्मेण । ११ पूर्वोताया जातेः । १२ अन्यथा । १३ प्रतिपक्षस्य । १४ कथम् । १५ प्रतिआदियोगेन।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org