________________
६५६
प्रमेयकमलमार्तण्डे [५. तदाभासपरिस भवति नानुत्पन्नस्य । प्रागुत्पत्तेः शब्दस्याऽसत्त्वे किमाश्रयोयमु. पालम्भः ? न ह्ययमनुत्पन्नोऽसन्नेव 'शब्दः' इति 'प्रयत्नानन्तरी. यकः' इति 'अनित्यः' इति वा व्यपदेष्टुं शक्यः । सत्त्वे तु सिद्धमेव प्रयत्नानन्तरीयकत्वकारणं नश्वरत्वे साध्ये, अतः कथमस्य ५प्रतिषेध इति?
"सामान्यघटयोरैन्द्रियिकत्वे समाने नित्यानित्यसाधात्सं. शयसमा जातिः।" [न्यायसू० ५।१११४] यथा 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवत्' इत्युक्ते परः सदृषणमपश्यन्
संशयेन प्रत्यवतिष्ठते-प्रयत्नानन्तरीयकेपि शब्दे सामान्येन साध. १० Hमैन्द्रियिकत्वं नित्येनास्ति घटेन चानित्यनास्ति, संशयः शब्दे नित्यत्वानित्यत्वधर्मयोरिति।
अस्याश्च दूषणाभासत्वम्-शब्दाऽनित्यत्वाऽप्रतिबन्धित्वात् । यथैव हि पुरुषे शिरःसंयमनादिना विशेषेण निश्चिते सति न स्थाणुपुरुषसाधादूर्ध्वत्वात् संशयस्तथा प्रयत्नानन्तरीयकत्वेन १५ विशेषेणानित्ये शब्दे निश्चिते न घटसामान्यसाधादैन्द्रिय कत्वात् संशयो युक्त इति ।
“उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमा जातिः।" [न्यायसू०५।१।१६] 'यथा अनित्यः शब्दः प्रत्नानन्तरीयकत्वाद् घटवत्' इत्यनित्यसाधात्प्रयत्नानन्तरीयकत्वाच्छब्दस्यानित्यतां कश्चि२० साधयति । अपरः पुनर्गोत्वादिना सामान्येन सांधात्तस्य नित्यताम् इति, अतः पक्षे विपक्षे च प्रक्रिया समानेति ।
ईदृश्यं च प्रक्रियाऽनतिवृत्त्या प्रत्यवस्थानमयुक्तम् । विरोधात् । प्रतिपक्षप्रक्रियासिद्धौ हि प्रतिषेधो विरुध्यते । प्रतिषेधोपपत्तौ तु
प्रतिपक्षप्रक्रियासिद्धिाहन्यते इति । २५ "त्रैकाल्यासिद्धेहेतोरहेतुसमा जातिः।" [न्यायसू० ५।१।१८] यथा सत्साधने दूषणमपश्यन्परः प्राह-'साध्यात्पूर्व वा साधनम्, उत्तरं वा, सहभावि वा स्यात् ? न तावत्पूर्वम्, असत्यर्थे तस्य साधनत्वानुपपत्तेः । नाप्युत्तरम् ; असति साधने पूर्व साध्यस्य साध्यखरूपत्वासम्भवात् । नापि सहभावि; स्वतन्त्रतया प्रसिद्धयोः
---
...१ भूयोदर्शनानिश्चितव्याः साधर्म्यवैधयोपाधिप्रतिकूलतादिना पक्षे सन्देहोपादानं संशयसमा जातिः । २ शब्दत्वलक्षणेन । ३ साधर्म्यम् । ४ केशबन्धादिना। ५ भनित्यनित्याभ्यां घटसामान्याभ्यां। ६ प्रत्यनुमानेन प्रत्यवस्थानं प्रकरणसमा जातिः। ७ ऐन्द्रियिकत्वात् । ८ प्रक्रिया अनुमानरचना। ९ साध्यस्य प्रागेव सिद्धत्वाकिमनेन हेतुनेति भावः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org