________________
सू० ६७३] जय-पराजयव्यवस्था हेतुगुणाश्रयमाकाशं निष्क्रियं दृष्टमिति । कः पुनराकाशस्य क्रियाहेतुगुणः? संयोगो वायुना सह । कालत्रयेप्यसम्भवादाकाशे क्रियायाः। न क्रियाहेतुर्वायुना संयोगः, इत्यप्यसारम् । वायुसंयोगेन वनस्पती क्रियाकारणेन समानधर्मत्वादाकाशे वायुसंयोगस्य । यत्त्वसौ तत्र क्रियां न करोति तन्नाकारणत्वात् ,५ किन्तु परममहापरिमाणेन प्रतिबद्धत्वात् । अथ क्रियाकारणवायुवनस्पतिसंयोगसदृशो वाय्वाकाशसंयोगो न पुन: क्रियाकार णम् ; न कश्चिदप्येवं हेतुरनैकान्तिकः स्यात्-'अनित्यः शब्दोऽमूतत्वात्सुखादिवत्' इत्यत्राप्यमूर्त्तत्वं हेतुः शब्देऽन्योन्यश्चाकाशे तत्सदृश इति कथमस्याकाशेनानैकान्तिकत्वम् ? सकलानुमानो-१० च्छेदश्च, अनुमानस्य सादृश्यादेव प्रवर्त्तनात् । न खलु ये धूमधर्माः कचिद्भूमे दृष्टास्त एवान्यत्र दृश्यन्ते तत्सदृशानामेव दर्शनात् । ततोनेनं कस्यचिद्धेतोरनैकान्तिकत्वं कचिदनुमानात्प्रवृत्ति चेच्छता तद्धर्मसदृशस्तद्धर्मोनुमन्तव्य इति क्रियाकारणवायुवनस्पतिसंयोगसदृशो वाय्वाकाशसंयोगोपि क्रियाकारणमेवा तथा १५ च प्रतिदृष्टान्तेनाकाशेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः प्रतिषेधः।
स चायुक्तः; अस्य दूषणाभासत्वात् । तथाहि-यदि तावदयं ब्रूते-'यथायं त्वदीयो दृष्टान्तो लोष्टादिस्तथा मदीयोप्याकाशादिः' इति, तदा व्याघातः-एकस्य हि दृष्टान्तत्वेन्यस्यादृष्टान्तत्वमेव, उभयोस्तु दृष्टान्तत्वविरोधः । अथैवं ब्रूते-'यथायं मदीयो न २० दृष्टान्तस्तथा त्वदीयोपि' इति । तथापि व्याघातः-प्रतिदृष्टान्तस्य ह्यदृष्टान्तत्वे दृष्टान्तस्यादृष्टान्तत्वव्याघातः, प्रतिदृष्टान्ताभावे तस्य दृष्टान्तत्वोपपत्तेः । दृष्टान्तस्य वाऽदृष्टान्तत्वे प्रतिदृष्टान्तस्यादृष्टान्तत्वव्याघातः, दृष्टान्ताभावे तस्य तत्त्वोपपत्तेरिति ।
"प्रागुत्पत्तेः कारणाभावाद्या प्रत्यवस्थितिः सानुत्पत्तिसमा २५ जातिः" [ न्यायसू० ५।१११२] तद्यथा-'विनश्वरः शब्दः प्रयत्नानन्तरीयकत्वात्कटकादिवत्' इत्युके परः प्राह-'प्रागुत्पत्तेरनुत्पन्ने शब्दे विनश्वरत्वस्य यत्कोरणं प्रयत्नानन्तरीयकत्वं तन्नास्ति ततोयमविनश्वरः, शाश्वतस्य च शब्दस्य न प्रयत्नानन्तरं जन्म इति ।
सेयमनुत्पत्त्या प्रत्यवस्था दूषणाभासोन्यायातिलङ्घनात्। उत्पन्न-३० स्यैव हि शब्दस्य धर्मिणः प्रयत्नानन्तरीयकत्वमुत्पत्तिधर्मकत्वं वा
१ तद्वदात्मापि निष्क्रियो भवत्विति। २ तार्णत्वादयः। ३ महानसादौ । ४ वादिना। ५ पर्वतादौ। ६ जातिवादी। ७ दृष्टान्तः । ८ व्याघातं भावयति । १ शब्दस्य । १० कारणं ताल्वादि । ११ प्रतिकूलता । १२ लिङ्गम् । १३ न्यायातिलहनमेव भावयति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org