SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [५. तदाभासपरिक हेत्वाद्यवयवयोगी धर्मः साध्यः, तमेव दृष्टान्ते प्रसञ्जयता साध्यसमा जातिः । यथात्रैव साधने प्रयुक्ते परःप्राह-यदि यथा लोष्टस्तथात्मा तदा यथात्मायं तथा लोष्टः स्यात् । 'सक्रियः' इति साध्यश्चात्मा लोष्टोपि तथा साध्योस्तु । अथ लोष्टः क्रियावान्न ५साध्या, तदात्मापि क्रियावान्साध्यो मा भूद्विशेषो वा वाच्य इति । दूषणाभासता चासाम्-सत्साधने दृष्टान्तादिसामर्थ्ययुक्ते सति साध्यदृष्टान्तयोर्धर्मविकल्पमात्रात्प्रतिषेधस्य कर्तुमशक्यत्वात् । यत्र हि लौकिकेतरयोर्बुद्धिसाम्यं तस्य दृष्टान्तत्वान्न साध्यत्वमिति। सम्यक्साधने प्रयुक्त प्राप्त्या यत्प्रत्यवस्थानं सा प्राप्तिसमा १० जातिः । अप्राप्त्या तु प्रत्यवस्थानमप्राप्तिसमेति । तद्यथा-हेतु: साध्यं प्राप्य, अप्राप्य वा साधयेत् ? 'प्राप्य चेत्; हेतुसाध्ययोः प्राप्तयोर्युगपत्सम्भवात्कथमेकस्य हेतुतान्यस्य साध्यता युज्येत्' इति प्रत्यवस्थान प्राप्तिसमा जातिः। अथ 'अप्राप्य हेतुः साध्यं साधयेत्, तर्हि सर्वसाध्यमसौ साधयेत् । न चाप्राप्तः प्रदीपः १५पदार्थानां प्रकाशको दृष्टः' इति प्रत्यवस्थानमप्राप्तिसमेति।। ताविमौ दूषणाभासौ प्राप्तस्यापि धूमादेरन्यादिसाधकत्वोपलम्भात्, कृत्तिकोदयादेस्त्वप्राप्तस्य शकटोदयादौ गमकत्वप्रती. तेरिति । दृष्टान्तस्यापि साध्यविशिष्टतया प्रतिपत्तौ साधनं वक्तव्यमिति २० प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमा जातिः। यथात्रैव साधने प्रयुक्त परः प्रत्यवतिष्ठते-'क्रियाहेतुगुणयोगाक्रियावाँल्लोष्टः' इति हेतु. !क्तः। न च हेतुमन्तरेण साध्यसिद्धिः। ___ अस्याश्च दूषणाभासत्वम्-यथैव हि रूपं दिदृक्षुणां प्रदीपोपा. दानं प्रतीयते न पुनः स्वयं प्रकाशमानं प्रदीपं दिसूणाम् । २५ तथा साध्यस्यात्मनः क्रियावत्वस्य प्रसिद्ध्यर्थ लोष्टस्य दृष्टान्तस्य ग्रहणमभिप्रेतं न पुनस्तस्यैव सिद्धार्थ साधनान्तरस्योपादानम् , वादिप्रतिवादिनोरविवादविषयस्य दृष्टान्तस्य दृष्टान्तत्वोपपत्तेस्तत्र साधनान्तरस्याफलत्वादिति । प्रतिदृष्टान्तरूपेण प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः। यथा३० त्रैव साधने प्रयुक्ते प्रतिदृष्टान्तेन परः प्रत्यवतिष्ठते-किया १ आदिना प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनानि । २ उभयोरपि दृष्टान्तसाध्ययोः साध्यत्वापादनेन प्रत्यवस्थानं साध्यसमा जातिः। ३ प्राकनवाक्यं विवृणोति । ४ सक्रिय इति । ५ अस्ति चेत्तहि । ६ त्वया वादिना । ७ उत्कर्षसमादिषण्णाम् । ८ विकल्प, भारोपः। ९ विशेषाभावात् । १० हेतुमन्तरेण साध्यसिद्धिर्भविष्यतीत्युले सत्साह । ११ कथम् साहि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy